________________ 246 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / प्रेक्षावदुपकारितयैवादौ निश्चयनयोपन्यासोऽस्माकं फलवान् भविष्यतीत्याशङ्कायामाह उन्मार्गकारणं पापा परस्थाने हि देशना / बालादे न्ययोग्यं च वचो भेषजवद्धितम् // 81 // नयामृत०-उन्मार्गेति / परस्थाने-स्वाधिकारिभिन्नाधिकारिणि निमित्ते, हि-निश्चितम् , देशना उन्मार्गकारणमिति हेतोः पापा, न खल्बपरिणतव्यवहारेषु मलिनवस्त्रेषु कुङ्कुमरागाधानवनिश्चयनयदेशना शोभामावहति, न च बालादेमध्ये अन्ययोग्यं वचोऽन्यस्य भेषजवद्धितं किन्त्वनर्थकारि, तस्मादादौ निश्चयोद्ाहो नग्नानामनर्थावह एव, तदिदमुक्तं षोडशकप्रकरणे- . " बालादिभावमेवं सम्यग् विज्ञाय देहिनां गुरुणा / सद्धर्मदेशनापि हि कर्तव्या तदनुसारेण // 1 // यद्भाषितं मुनीन्द्रः पापा खलु देशना परस्थाने / उन्मार्गनयनमेतद् भवगहने दारुणविपाकम् // 2 // हितमपि वायोरौषधमहितं तच्छ्लेष्मणो यथात्यन्तम् / सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति // 3 // . एतद्विज्ञायैवं यथार्ह शुद्धभावसम्पन्नः / विधिवदिह यः प्रयुङ्क्ते करोत्यसौ नियमतो बोधिम् // 4 // " 81 // नन्वनादिकालीनव्यवहारवासनाजनितमात्मशरीराभेदभ्रममुन्मूलयितुं प्रवृत्तेः, अस्मच्छाने आदी मिज्ञानाभिशप्राणिनां हितावहः / इति एतस्मात् कारणात् / आदौ प्रथमतः / “तदुपन्यासेन" इत्यस्य स्थाने . "तदनुपन्यासेन" इति पाठो युक्तः, तस्य व्यवहारनयानुपन्यासेनेत्यर्थः / अन्यत् स्पष्टम् // 80 // एकाशीतितमपद्यमवतारयति-प्रेक्षावदुपकारितयवेति। अस्माकं दिगम्बराणाम् / विवृणोति- उन्मागेंतीति / परस्थाने इत्यस्य विवरण- स्वाधिकारिभिन्नाधिकारिणि निमित्ते इति-स्वपदेनात्र देशनाया ग्रहणम् / देशना कथं पापा ? मुख्यतयाऽधर्मस्य गौणतयाऽधर्मकारणस्य च पापपदबोध्यत्वादत उन्मार्गकारणत्वेनाधर्महेतुत्वात् पापपदबोध्या सेत्याशयेनाह-उन्मार्गकारणमिति / हेतोरिति- यतोऽनधिकारिणि देशना उन्मार्गकारणमैतस्मात् कारणात् पापेत्यर्थः / सदृष्टान्तमनधिकारिणि निश्चयनयदेशनायाः शोभानावहत्वमावेदयति-नेति-अस्य 'आवहति' इत्यनेनान्वयः / खल निश्चितम् , अपरिणतव्यवहारेष्विति-अज्ञातनयरहस्येष्वित्यर्थः, अस्य निश्चयनयदेशनायामन्वयः। मलिनेति-अत्य न्तमलिनेषु वस्त्रेषु कुङ्कुमरागस्य-रागिद्रव्यकुङ्कुमरक्तिम्न आधानं यथा शोभा नावहति तथेत्यर्थः / न चेत्यस्य हितमित्यनेन सम्बन्धः / बालादेरित्यत्रादिपदात् कुमार युव-वृद्धादेरुपग्रह / भेषजवदिति- यथा कुमारादियोग्यं भेषजं न बालादेहित बालादियोग्यं च भेषजं न कुमारादेहित तथेत्यर्थः / किन्त्वनर्थकारि कुमारादियोग्य भेषजं बालादिभ्यः प्रदत्तं तेषामनर्थकरम् / उपसंहरति-तस्मादिति / एतत्संवादकं षोडशकप्रकरणस्थपद्यचतुष्टयमुपदर्शयति-तदिदमुक्तमिति। बालादीति-गुरुणा देहिनामेवं बालादिभावं सम्यग् विज्ञाय तदनुसारेण सद्धर्मदेशनाऽपि कर्तव्या होत्यन्वयः / तदनुसारेण बालाद्यनुसारेण, बालादिषु मध्ये यस्य या सद्धर्मदेशना योग्या तस्मिन् सा देशना गुरुणा विधेयेत्यर्थः / अन्यत् स्पष्टम् / / यद्भाषितमिति- 'इति यद् भाषितम्' इति तृतीयपद्यान्तेतिना सह भाषितमित्यस्यान्वयः, खलु निश्चितम् , परस्थाने देशना पापा, भवगहने दारुणविपाकमेतदुन्मार्गनयनम् , यथा वायोहितमप्यौषधं तच्छ्लेष्मणोऽन्त्यन्तमहितम्, एवं बालाद्यपेक्षं सद्धर्मदेशनौषधमिति भाषितं मुनीन्द्रर्यदित्यन्वयः, भवगहने संसारकानने। दारुणविपाकं पर्यन्तेऽशुभफलकम् , वायोः वातव्याधिपीडितस्य, तत् औषधम्, श्लेष्मणः कफादिव्याधिपीडितस्य, एवं तथा, अन्यदुत्तानार्थम् // ___एतदिति- यः शुभभावनापन्न एतदेवं विज्ञाय इह विधिवद् यथार्ह प्रयुके असौ नियमतो बोधिं करोतीत्यन्वयः, बोधि सम्यक्त्वम् , अन्यत् स्पष्टम् // 8 // द्वयशीतितमपद्यमवतारयति-नन्वित्यादिना / अनादीति- अनादिकालिकी या व्यवहारवासना तया जनितमात्मशरीरयोरमेदभ्रमं - तादात्म्यभ्रममुन्मूलयितुम्- अत्यन्तमुच्छेत्तुम् , “प्रवृत्तेः," इत्यस्य स्थाने "प्रवृत्ते" इति पाये