________________ 244 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / तदितरा इति स्वरूपतो बलवानपि निश्चयनयः स्तोकानामुपकारकत्वाद् बहूनां चापकारकरवाचक्रवर्तिभोजनमिव फलतोऽनर्थनिबन्धनमिति भावः // 77 // आमे घटे यथा न्यस्तं, जलं खघटनाशकृत् / तथाऽपरिणते शिष्ये, रहस्यं नयगोचरम् // 78 // नयामृत-आमे घट इति-स्पष्टम् // 78 // : पृथक्त्वे नाधिकारस्तन्नयानां कालिकश्रुते। / अधिकारस्त्रिभिः प्रायो, नये व्युत्पत्तिमिच्छताम् // 79 // नयामृत-पृथक्त्व इति / तत्-तस्मात् कारणाद् बहूपकारोद्देशेनैव देशनायाः प्रवृत्तेः, सूक्ष्मनयानां च बहनुपकारकत्वात् कालिकश्रुते पृथक्त्वे-अनुयोगचतुष्टयपृथक्करणे सति, नयानां-सर्वेषां नयानामधिकारो नास्ति योजनायामिति शेषः, किं सर्वथैव नाधिकारो ? नेत्याह-त्रिभिः-नैगम-सहव्यवहारैर्नयैः प्रायोऽधिकारो व्युत्पत्तिमिच्छतां-शिष्याणां हितमिति शेषः, तथा च पारमर्षम्- " एएहिं दिट्ठीवाए परुवणा सुत्तअत्थकहणाय / - इह पुण अणन्भुवगमो अहिगारो तीहि उ भगति // " [आवश्यके गा० 760 // पृथक्त्वे ह्यविभागस्थैनयः सूचनामात्रसन्निविष्टैः मूढनयिकं श्रुतमिति न तत्र सर्वनयविवेचनाधिकारः, अपृथक्त्वे तु बहूनां शिष्याणां परिणामकत्वात् तद्धितो बहुत्वेन विभागस्थैर्नयैरमूढनये सूत्रे सर्वनय. व्युत्पादनमासीदेवेति भावः / तदुक्तं• किञ्चिद् विद्यते इति स्वरूपोपरजके तस्मिन् विशेषणे सति यत्रापि पुरुषे हितावहत्वं सूक्ष्मार्थनयानां सोऽपि पुरुषोऽति. पारिणामिक एवेति निषेधार्थस्य चाघटमानत्वात् प्रकृतोपयोगिनं तदर्थमाह- अपवादेकरुचाविति- विधायकं शास्त्र सामा न्यशास्त्रं तथार्थसङ्कोचकरणाय यद्विशेषशास्त्रं तदपवादशास्त्रं तदथे एकाऽद्वितीया रुचिः श्रद्धा यस्य सोऽपवादैकरुचिस्तस्मिन् पुरुषेऽपि, सूक्ष्मार्था नया हितावहा न भवन्तीत्यर्थः / परिणामकानां स्वल्पत्वात् तदुपकारकत्वेऽपि स्वरूपतो बलवतो निश्चयनयस्य बहूनामपरिणामकानामतिपारिणामिकानां चापकारकत्वाच्चक्रवर्तिभोजनस्येवानर्थहेतुत्वमिति फलतो न शुद्धत्वं तस्य किन्तु व्यवहारस्यैव फलतः शुद्धत्वमित्याह-स्तोकाश्चेति। "तदितराः" इत्यस्य स्थाने " तदितरे" इति पाठः। परिणामकभिन्ना अपरिणामका अतिपरिणामकाश्च // 7 // . ऐदम्पर्यायार्थविषयकश्रद्धाशून्ये शिष्ये निश्चयनयविषयगोचर उपदेशोऽनर्थहेतुरित्येतत्प्रतिपादकमष्टसप्ततितमपद्यं स्पष्टार्थत्वान्न विवरणाईमित्याह- आमे घट इति-स्पष्टमिति // 78 // ___ कालिकश्रुते व्याख्यायां निश्चयनयस्य नाधिकारो व्यवहारनयस्य त्वधिकार इत्यावेदकमेकोनाशीतितमपद्यं विवृणोतिपृथक्त्व इतीति / तदिति मूलस्य विवरणं-तस्मात् कारणादिति / तस्मात् कारणादित्यनेन किमुकं भवतीत्यपेक्षायां तस्यैव विशिष्य स्वरूपमुपवर्णयति-बहूपकारोद्देशेनैवेति- बहूपकारोद्देशेनैव देशनायाः प्रवृत्तेः, सूक्ष्मनयानां च बहनुपकारकत्वादित्येतस्मात् कारणादित्यर्थः / कालिकश्रुते इति. प्रसिद्धत्वान्न व्याख्यातम् / पृथक्त्वे इति. मूलस्य विवरणम्-अनुपयोगचतुष्टयपृथकरणे सतीति / नयानामित्यस्य विवरणं- सर्वेषां नयानामिति / कुत्राधिकारो नास्तीत्यपेक्षायां -योजनायामिति शेषः, योजनालक्षणव्याख्याने सर्वेषां नयानामधिकारो नास्तीत्यर्थः / उत्तरार्द्ध व्याख्यातुमवतारयति-किमिति / उक्कार्थेः परमर्षिवचनं प्रमाणयति-तथा चेति। एएहिं इति-"एतर्हि दृष्टिवादे प्ररूपणासूत्रार्थकथनाय / इह पुनरनभ्युपगमोऽधिकारस्त्रिभिस्तु भण्यते // " इति संस्कृतम् / भावार्थमावेदयति-पृथक्त्वे हीत्यादि / मूढनयिकं अविज्ञातनयकम्, अनेन नयेनेदं श्रुतं: प्रवृत्तमित्येवं न ज्ञायत इति / तत्र अविज्ञातनयके