________________ ग्लो० 194-252] वैराग्यरतिः। प्राहायं यद्येवं त्यजाम्यहं सर्वथा कदन्नमिदम् / सर्वाकुलतारहितं येन प्राप्नोमि सुखमतुलम् // 223 // सा प्राह सर्वसङ्गत्यागः श्रेयान् परं सति विवेके / स्नेहोच्छेदे फलवान् विपरीतफलोऽन्यथा ह्येषः // 224 // वसतो गृहेऽप्यगृद्धया यान्ति श्राद्धस्य याप्यतां रोगाः / कृतसर्वत्यागस्याऽप्यभिलाषे तत्र विकृताः स्युः // 225 // शस्त्रमिव सुप्रयुक्तं शत्रूच्छेदाय भवति चारित्रम् / अहिताय दुष्प्रयुक्तं ग्राह्यं तत् सम्यगालोच्य // 226 // इति सद्बुद्धिविमर्शादीषदोलायितं मनस्तस्य / दध्यौ पतितमपि हितं तरुपतनान्नोच्चमपि तु फलम् // 227 // अजनि कदालम्बनधीरनुवृत्तैरथ चरित्रमोहांशैः / पोष्यं कुटुम्बकं मे किमनेनाकाण्डकलहेन ? // 228 // प्रव्रज्या बाहुभ्यां जलनिधितरणं नभस्वता भरणम् / वस्त्रग्रन्थेः शिरसा विदारणं पर्वतस्येव // 229 // चर्वणमयोयवानां मानं पाथोनिधेः कुशाग्रेण / राधावेधविधानं गमनं सरितः प्रतिश्रोतः // 230 // शक्तोऽहं नैतस्यां न विनाऽप्येतां समग्रसुखलाभः / नाऽप्यरिबलक्लेशक्षतिरिति सन्देहाकुलः सोऽभूत् // 231 // भूरिमहाकल्याणं भुक्त्वाऽयमथाऽन्यदा तपोनियमैः / भक्षितवानल्पतरं प्रसङ्गतोऽर्थाऽर्जनकदन्नम् // 232 // स ततः सदन्नतृप्तेः सद्बुद्धेः सन्निधेश्च तदपथ्यम् / अन्वभवत् कथितरसं मलाविलं लज्जनीयं च // 233 // छित्त्वाऽथ रागतन्तून् स्वजनादिकृतव्यलीकमनुचिन्त्य / प्रविहाय पूर्वपक्षं पुनरभिलाषस्य दृढभावात् // 234 // लब्ध्वा राज्यं दासः कः स्यादिति संयमे रतिं कुर्वे / यद् भाव्यं तद् भवतादिति सिद्धान्तं स जग्राह // 235 // इति मत्त्वा सद्बुद्धिस्तेनोक्ता क्षालयस्व मे भद्रे ! / भाजनमिदं कदन्नं सर्व संहृत्य हितहेतोः // 236 // सा प्राह प्रष्टव्यः कार्येऽस्मिन् चारुधर्मबोधकरः / कार्यतरुन विकारं सुविचारपरिस्कृतो याति // 237 // निजनिश्चयप्रदर्शनपूर्व पृष्टोऽथ धर्मबोधकरः / योग्यत्वं गीतार्थैः सह पर्यालोच्य जानानः // 238 // अत्याजयत् कदन्नं विमोचयस्तं समस्तसङ्गेभ्यः / अक्षालयच्च भाजनमाजन्मालोचनासलिलैः // 239 // तच्च महाकल्याणकपूर्ण चक्रे महावतारोपात् / जिनचैत्य-सङ्घपूजामहोत्सवस्तदिने ववृधे // 240 // मेदस्विनी सुबुद्धिर्जाता मुदितश्च धर्मबोधकरः / उल्लसिता तस्य दया प्रीतं नृपमन्दिरं निखिलम् // 241 // जातश्च यशोवादा योऽयं राज्ञाऽवलोकितः सम्यक् / तत्सूदस्याऽभिमतस्तद्दयया पालितो विधिना // 242 // सबुद्ध्याऽनुगृहीतस्त्यक्ताऽपथ्यश्च तत्प्रभावेन / सद्भेषजसेवनया विमुक्तकल्पश्च रोगौधैः // 243 / / सोऽयं नो निष्पुण्यः किन्तु महात्मा सपुण्यको नूनम् / न हि दारिद्रयापादककर्महतश्चक्रवर्ती स्यात् // 244 // अथ तिष्ठतो नृपगृहे तस्य दया-बुद्धिदलितदोषस्य / न भवति पीडा व्यक्ता सूक्ष्मा प्राग्दोषतस्तु स्यात् // 245 // अथ सूक्ष्मभावदोषप्रतिघातपरायणः प्रशमजलधिः / परिगलितलोकसंज्ञो वैषयिकसुखे निराकाङ्कः // 246 // अक्ष्णोविमलालोकं निदधात्यञ्जनमधीतपरमार्थः / तत्त्वप्रीतिकरं जलमश्रान्तं पिबति पूतात्मा // 247 // नित्यं भुङ्क्ते च महाकल्याणं चरणकरणचारुमतिः / धीतिरोजः स्वास्थ्यं भवति ततो धाम हर्षश्च // 248 // यः प्रेतः प्रागासीत् स इदानी दिव्यमानुषो जातः / इति धर्मबोधकयशोमहिमा जगति प्रसृमरोऽभूत् // 249 // प्रथमदशावैराग्यादित्थं स्फीताशयश्चरणमानी / स्वगुणासङ्गवनेऽसौ क्रीडां कर्तुं कदापि ययौ // 250 // तत्रात्मस्तुतिवल्ल्यः परनिन्दाशल्यपल्लवाताम्राः / विस्फारगारवफलाः पूजाकुसुमस्मिता दृष्टाः // 251 // तादृशवल्लीकलितं रमणीयं प्रेक्ष्य किल तदुद्यानम् / शयितस्तच्छायायां व्ययितो यत्नोऽञ्जनादीनाम् // 252 //