________________ 298 महोपाध्यायश्रीयशोविजयमणिविरचिता [ अष्टमा समः वपुर्निर्वापयत्यक्ष्णोः , पीयूषमभिवर्षति / ततोऽहं प्रणतोऽमुष्यै, धर्मलाभमयं ददौ // 718 // जगाद च महाराज ! मानुष्ये मोक्षकारणे / प्राप्तेऽन्यत्र न गन्तुं ते, युक्तमुन्मार्गसंश्रयात् / / 719 // नीयमानस्य चौरस्य, वध्यस्थाने स्वमन्तुना / किं राज्यं के विलासास्ते, किं वा स्वास्थ्यं विचिन्तय ||720 // किं च मद्दर्शनात् तस्या, जाता जातिस्मृतिस्तदा / सर्वं सोदन्तमाकन्दमुनिकालात् ततोऽस्मरत् / / 721 // उत्पन्नमवधिज्ञानं, शुमभावात् तदाश्रयात् / तेन दृष्टं ममाप्युच्चभगवत्या विचेष्टितम् // 722 // ततोऽसावाह राजेन्द्र !, किं न स्मरसि यत् तदा / लालितः प्रौढलीलाभिर्ममाग्रे गुणधारण ! // 723 // क्षान्त्याद्यन्तःपुरं प्राप्य, परमानन्दमेदुरः / भावराज्ये स्थितो यत् त्वं, तत् किं नु तव विस्मृतम् ? // 724 // किं न ते स्मृतिमायाति ? विमलाचार्यभारती / भवप्रपञ्चो निखिलः, प्रोक्तोऽनन्तोऽपि ते यया // 725 // यत्प्रसादात् त्वया प्राप्तं. सुखं अवेयकादिषु / सदागमः स ते त्राणं, तत् प्रबुद्ध्यस्व मा मुहः // 726 // तवैवाहं प्रबोधाय, करुणार्दा समागता / विहाय चित्तशून्यत्वमन्तस्तत्त्वं विलोकय // 727 // अत्रान्तरे च प्रस्तावं, ज्ञात्वा मत्सम्मुखं पुनः / सम्यग्दर्शनसबोधावागन्तुं चक्रतुर्मनः / / 728 // ... दुष्टान्तरारिवर्गेण, संरुद्धो तमसा पथि / विकुर्वितेन मे पाश्चे, नागन्तुं शक्नुतः स्म तौ // 729 // . सूर्यकान्तसमे दीप्ते, जीववीर्यवरासने / क्षीणं तमो भगवतीवाक्यसूर्यांशुभिश्च तत् / / 730 // आयोधनं ततो लग्नं, चित्तवृत्तौ बलद्वये / सम्यग्दर्शनसद्बोधौ, हत्वाऽरीन् मामुपागतौ // 731 // ध्यातं मया भगवती, किंमेषा परिजल्पति / ई(ऊ)हापोहं गतस्य, जातिस्मृतिरभून्मम // 732 // गुणधारणकालीना, स्मृताऽवस्था शुभाशयात् / ततः सद्बोधमित्रं मामवधिः समुपागतः // 733 // असंख्येया मया दृष्टास्तबलाद् द्वीपवार्धयः / भवप्रपञ्चोऽसंख्येयः, साक्षादेव विलोकितः // 734 // सिंहाचार्यभवाभ्यस्तं, सर्वैरतिशयैः सह / निर्मलं पूर्वपर्यन्तं, प्रादुर्भूतं श्रुतं मम // 735 // . स्मृतः संसारविस्तारो, निर्मलाचार्यकीर्तितः / असंख्येयः स्फुटं दृष्टस्तदारात्तु भवभ्रमः // 736 // . धृत्वाऽहं तस्कराकारं, ततः पूर्वोक्तकारणात् / इहागतस्तदारात् तु, वार्ता ज्ञातैव ते मम // 737 // ततो भद्रे सुललिते !, ज्ञात्वा मदनमञ्जरीम् / त्वां प्रबोधयितुं मुग्धां, जातस्नेहकृपाभरः // 738 // बहुमानाद् भवत्वस्याः, सर्वज्ञागमगोचरात् / तपस्विन्याः क्लिष्टकर्मक्षय इत्यवधारयन् // 739 // प्रभोः सदागमस्यास्य, प्रभावादखिलं ह्यदः / अहं वेनीति जनयन् , बहुमानं सदागमे // 740 // सझेपतोऽपि षण्मासवाच्यं माहात्म्यतः प्रभोः / सर्वं चरित्रं प्रहरत्रयेण स्म वदामि ते // 741 // . . तदिदं भावचौर्य मे, ममेदृक् च विडम्बना / एवं च भद्रे ! जानामि, वृत्तान्तं स्वपराश्रयम् // 742 // श्रुत्वा चेदं सुललिता, विस्मिता भाविता हृदि / पौण्डरीकोऽपि भावार्थ, जग्राहैतद्गतं मनाक् // 743 // अवादीचार्य ! किश्चित्तद्, वृत्तावस्ति तवाधुना / ततोऽनुसुन्दरेणोक्तं, यावत् संवेगमागतः // 744 // प्रक्रान्तोऽहं चरित्रं भो वक्तुं स्वं भवतां पुरः / तावच्चारित्रधर्मोऽसौ, चलितो मम सम्मुखम् // 745 // तेन चागच्छता चारूकृतं सात्त्विकमानसम् / नगरं शुभ्रतां नीतो, विवेकगिरिपर्वतः / / 746 // शिखरं चाप्रमत्तत्त्वं, कृतमुच्चैस्तगं शुचि / भूयोऽपि भूषितं जैनपुरमुत्तोरणावलि // 747 //