________________ 187 ग्लो० 691-734 ] वैराग्यरतिः। विभर्ति मोहेन समं विरोधं छायेव सा यद् ध्रुवमातपेन / दवाग्निनेवाम्बुदवारिधारा दौर्गत्यदुःखेन सहैव लक्ष्मीः / / 713 // चारित्रधर्मस्य तथाऽस्ति कन्या निरीहता नाम निधिर्गुणानाम् / भ्रात्रोरभीष्टा विरतेश्च कुक्षिसमुद्भवा राज्यविवृद्धिकीं // 714 // प्रवर्द्धिता मन्त्रिमहत्तमाळ सन्तोषनाम्नाऽपि च तन्त्रपेन / उदारभावार्णवपूर्णिमेन्दुज्योत्स्ना जगदुःखलताकृपाणी / / 715 // स्वभावरम्या न हि वाञ्छतीयं रत्नादिसाध्यानि विभूषणानि / दूण्याणि भूष्याण्यपि तानि नास्याः कुतस्तरां भूषणताऽस्तु तेषु // 716 // स्वर्णैर्न भोगैर्न न रत्नपूगैः कदापि सा लोभयितुं च शक्या / एक विना भाग्यमिहैव साधोः स्वर्गापवर्गोंचितशर्मदायि // 717|| सहस्रशः सन्त्यधिभूमि कन्याः सा रत्नभूर्मावभूवस्तदन्याः / न कास्तटिन्यः कलुषं वहन्ति जगत् पुनीते सुरसिन्धुरेका // 718 // कलत्रमेषा यदि नाम लब्धा राज्येन कि भरिधनेन किंवा? | कलत्रमेषा यदि नैव लब्धा राज्येन किं भूरिधनेन किं वा ? // 719 // अस्या नरेन्द्रो घनवाहनोऽसौ यदा विवाहाद् भविता कृतार्थः / परिग्रहो यास्यति नाशमस्य तदैव दैवव्यतिवृत्तिभीतः // 720 // अकलकोऽवदन्नाथ! कदा ते परिणेष्यति / अयं कन्ये गुरुः प्राह कालेनाद्यापि भूयसा // 721 // प्रत्याहाथाकलङ्कस्तं ते कन्ये लम्भयाम्यहम् / गुरुराहाधिकारोऽत्र नाद्याप्यस्ति भवादृशा // 722 / / दापयिष्यति ते कर्मपरिणामो महीपतिः / तस्मै कन्ये परः कोऽपि तयोरस्ति न दायकः // 723 // दापयिष्यति ते कन्ये तस्मिन् युष्मादृशा अपि / हेतुभावं वजन्त्येव तदत्रास्यैव निर्भरः // 724 // तत् त्यक्त्वा वस्तुनिर्बन्धं तिष्ठ त्वं स्वस्थमानसः / ततोऽकलङ्कः स्वीकृत्य तत् तथेति स्थितः सुखी // 725 // अहं पुनर्महामोहपरिग्रहसमाश्रितः / तद्भूत्यैः पीडितोऽनेकैर्भूयो भूयो गतागतैः // 726 // एके गच्छन्ति तभृत्याः प्रत्यागच्छन्ति चापरे / सामुद्रा इव कल्लोला वनवत् प्लावयन्ति माम् ||727 // तदा मम महामोहे पार्श्वस्थे सर्वनायके / नास्थात् तत्सैनिकः कोऽपि येन नाहं समाश्रितः / / 728 // मूर्छितो बाह्यभावेषु महामूढतया कृतः / मिध्यादर्शनसंज्ञेन त्याजितोऽहं सदागमम् // 729 // पापानि धर्मबुद्धयाऽहं कारितस्तन्महेलया / कुदृष्ट्या विषयेष्वास्थां न्यधाद् मे रागकेसरी // 730 // तद्भार्यया मूढतया हृता मे भवदोषधीः / तथा द्वेषगजेन्द्रोऽपि तापं कुर्वन् व्यजृम्भत // 731 // तस्याऽविवेकिता भार्या विवेकं संजहार मे / प्रवर्त्तितश्च भोगेषु रागकेसरिमन्त्रिणा // 732 // विडम्बितः पुनस्तस्य भार्यया भोगतृष्णया / भोगानां मूर्छयाऽऽप्तानामनाप्तानां च काझ्या // 733 // हासेन हासितोऽनथं गाम्भीर्य नाशितं च मे / गात्रेषु रमितो रत्या मलपूर्णेषु योषिताम् // 734 //