________________ नमस्कार स्वाध्याय। फलवह्नौ स्यादष्टभिर्मासैाभ्यां वायव्यके पुनः / मासेन वारुणे सप्तरात्रान् माहेन्द्रके पुनः॥११॥ मन्दा मन्दाकिनी ध्वाक्षी, घोरा तथा महोदरी / राक्षसी मिश्रिका चैव, संक्रान्तिः सप्तधा स्मृता // 12 // गुरु-बुध-रवि-कुज-शशि-शनि-शुक्रेषु राशयः शस्ताः / वर्णाः क्रमेण सोडिक-तस्करा कारु चतुष्पदकाः // 13 // ब्राह्मणाः क्षत्रियाः वैश्याः, शूद्राः पिशाच नर्तकाः। गोनाथाश्वधियामादौ, पीड्यन्ते क्रमशो जनाः // 14 // सपादद्वयनक्षत्रान् , सार्द्धवर्षेण भुञ्जति / यहक्षं च परे राहुर्द्विजिह्वा सा प्रकीर्तिता // 1 // पूर्व पञ्चदर्श ज्ञेयं, मध्ये ज्ञेयं त्रयोदश / एवं भ्रमति खेचरे, ऋक्षचारैश्च संस्थिताः॥२॥ प्रयोदशानि ऋक्षाणि, तस्योदरं तु जायते / एकैकं गुद-जिह्वायां, सप्ताभिमुखसंस्थितः // 3 // षभिः पुच्छं विजानीयाद्, राहुचक्रं समालिखेत् / यद् यस्य लभते देहे, ग्रहाः सर्वत्र दापयेत् // 4 // जिला-गुह्ये स्थितो भानुर्भगस्थाने तु चन्द्रमाः। विग्रहं तु भवेद् घोरं, न तु युद्धं भविष्यति // 5 // अथवा जायते युद्धं, भग्नामं तु महाहवम् / / उभौ सैन्यौ तु राजानौ, द्वावप्येतौ विनश्यतः // 6 // सुखस्थाने यदा चन्द्रो, भङ्गस्थाने दिवाकरः। यात्राया न निवर्तन्ते, आहवे मरणं भवेत् // 7 // उदरे सूर्य-सोमो तु, सन्धिर्भवति विग्रहे। जिह्वागुह्ये द्वये दृष्टे, विग्रहं रौरवं भवेत् // 8 // दुर्भिक्षं व्याधिपीडा च, यायिनो जायते तथा। . उदरे तु यदा सूर्यो, मुखे चरति चन्द्रमाः // 9 // आगन्तुके जयो नास्ति, यदि चन्द्रे समो भवेत् / सूर्यः स्याद् गुद-जिह्वायां, भङ्गे शशाङ्कसंस्थितः // 10 // ऊभौ सैन्यक्षयं तत्र, किश्चिदागन्तुके जयः। उदरे चन्द्रमा सूर्यो, मुखे आगन्तुके जयः॥ 11 // चन्द्रः स्याद् गुद-जिह्वायां, मुखे रविः समं युद्धम् / जयः स्थानस्थिते किश्चिद्, वाच्यं जय-पराजये // 12 // पुच्छे चन्द्रो रविः पोटे, आगन्तुके जयो भवेत् / उदरेऽर्कः शशी जिह्वा, गुदे मृत्युश्च यायिनः // 13 // पोटे चन्द्र-रवी स्यातां, सन्धिस्तत्र भवेत् तथा। . मुखे द्वौ च क्षयं तत्र, सङ्ग्रामेण महीभृताम् // 14 // पुच्छस्थिते तथा द्वौ तु, धन-राष्ट्रक्षयो भवेत् / द्वितये गुद-जिह्वायां, तदा भङ्गं समादिशेत् // 15 // जिला-गुदे यदा चन्द्रः, पुच्छे मुखे च भास्करः / स्थायिनः स्थाच्छुभं तत्र, भङ्गो भवति यायिनः॥१६॥