________________ विभाग] 305 नमस्कार स्वाध्याय। लग्नं चन्द्रं बुधं शुक्र, सूर्य भौमं गुरुं शनिम् / एतत्क्रमेण संवीक्ष्य, रेखा-बिन्दुगतं फलम् // 3 // चन्द्रायाष्ट-द्वि-नवेऽप्यर्कस्वादर्किभौमयोश्च शुभः। षट्-सप्तान्त्येषु सितात् षडायधी धर्मगोजीवान् // 4 // अष्टकवर्गमाह 1, 4, 7, 10, 11, 8, 2 विलग्नादित्यादादित्यः शुभः / शनि-भौमाभ्यां रविरेतैः स्थानैः। शुक्रस्थानाद् रविः 6, 7, 12 शुभः / तथा स आदित्यः जीवात् 6, 11, 5, 9 शेषष्वशुभः / ... उपचयगोऽर्क-चन्द्रादुपचयनवमान्त्यधीयुतः सौम्यात् / लग्नादुपचयबन्धुं व्यये स्थिते शोभनः सूर्यः॥ चन्द्रात् सूर्यः 3, 6, 10, 11 / बुधात् सूर्यः 3, 6, 10, 11, 9, 12, 5 / 10 लमाद् रविः 3, 6, 10, 11, 4, 12 / शेषमनिष्टम् // रवि अष्टकवर्गः // शश्युपचयेषु लग्नात् स्वाद्यमुनिः स्वात् कुजात् स नवधीस्थः। सूर्यात् स्वाष्टस्मरगः त्रिषडाय सुतेषु सूर्यसुतात् // तात्कालिकचन्द्राच्चन्द्रः 3, 6, 10, 11, 1, 7 / कुजात् 3, 6, 11, 10, 5 / सूर्यात् 3, 6, 10, 11, 8, 5 / शनिश्चरात् 3, 6, 11, 5 / 15 शाकेन्द्रनृसुतायाष्टमो गुरोर्व्ययान्मृत्युकेन्द्रेषु / नृचतुःसुतनवदशसप्तमायगश्चन्द्रमाः शुक्रात् // बुधाच्चन्द्रः 1, 4, 7, 10, 3, 5, 11, 8 / गुरोः 2, 11, 8, 4, 1, 7, 10 / शुक्रस्थानात् 3, 4, 5, 9, 10, 7, 11 // चन्द्राष्टवर्गः // भौमः स्वादायाष्टद्विकेन्द्रगख्याय षट् सुतेषु वुधात् / जीवाद् दशमायशत्रुव्ययेष्विनादुपचयसुतेषु // भौमाद् भौमः 11, 8, 2, 1, 4, 7, 10 / बुधाद् भौमः 3, 11, 6, 5 / जीवात् 10, 11, 6, 12 / रवेः 3, 6, 11, 10, 5 / उदयादुपचयतनुषु त्रिषडा ये बिन्दुतः समो दशमः / भृगुतोऽन्त्यषडाष्टायेष्वसितात् केन्द्राय नववसुषु॥ - लमात् 3, 6, 11, 10, 1 / चन्द्रात् 3, 6, 11, 10 / शुक्रात् 12, 6, 8, 11 / शनेः 1, 4, 10, 9, 8 // भौमाष्टकवर्गः // सौम्योऽनन्त्यषट्नवायात्मनेष्विनात् स्वात् त्रितनुदशयुतेषु / चन्द्राद् द्विरिपुदशायाष्टसुखगतः सादिषु विलग्नात् // ___इनाद् बुधः 12, 6, 9, 11, 5 / बुधाद् बुधः 12, 6, 9, 11, 5, 3, 1, 10 / 30 चन्द्रात् 2, 6, 10, 11, 8 / लग्नात् 2, 10, 11, 8, 4, 1 / प्रथममुखायद्विनिधनधर्मेषु सितात् त्रिधा युतेषु / आशा-स्मरेषु सौरारयोर्व्ययाऽरिवसुषु गुरोः // 20 25