________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् अथ समवायपदार्थनिरूपणम् [265] अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इह प्रत्यय हेतुः स समवायः / द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानामकार्यकारणभूतानां वायुतसिद्धानामाधार्याधारभावेनावस्थितानामिहेदमिति बुद्धिर्यतो भवति, यतश्चासर्वगतानामधिगतान्यत्वानाम विष्वग्भावः स समवायाख्यः सम्बन्धः / न्यायकन्दली [265] 'तुभ्यं भव भिदे विश्वसंहारोत्पत्तिहेतवे / / निर्मलज्ञानदेहाय नमः सोमाय शम्भवे // समवायनिरूपणार्थमाह-अयुतसिद्धानामाधार्याधार भूतानां यः सम्बन्ध इह प्रत्ययहेतुः स समवायः / तदेतत्कृतव्याख्यानमुद्देशावसरे / के ते अयुतसिद्धा येषां सम्बन्धः समवायो भवेत् ? अत आह-द्रव्यगुणकर्मसामान्यविशेषाणामिति / कार्यकारणभूता [टिo] ( // अथ समवायपदार्थनिरूपणम् // ) [265 to 270] 'अबाधितेहप्रत्ययत्वाद् इति :- ग्रामारामान्त रालं 'दूरादपश्यत 'इह ग्रामे 'द्रुमाः' इति प्रत्ययः सम्बन्धमन्तरेणापि स्यात् तद्व्यवच्छेदार्थम् अबाधितेति विशेषणम् / नन्विह तन्तुषु पट इत्यादि [पं०] [265 to 270] अथ समवायपदार्थे उद्देश्यावसरे द्रव्यपदार्थस्याभेदा अवयवावयविनामिति (कं. 325.13) अत्र द्वन्द्वः। अवयवा: कारणम, अवयवी कार्यः / अनित्यद्रव्यतद्गुणानामिति (कं. 325.13) (अ)नित्यद्रव्याणि द्वयणुकादीनि तद्गुणाश्च रूपादयः / अनित्यद्रव्याणि च तद्गुणाश्च अनित्यद्रव्यतद्गुणाः तेषाम् / अत्रापि कारणानि अनित्यद्रव्याणि, कार्याणि तु रूपादीनि / नित्यद्रव्यतत्समवेतां [नाम ] नित्यगुणानामिति (कं. 325.14) नित्यद्रव्याण्यात्मादीनि, तत्समवेताश्वानित्यगुणा बुध्यादयः / नित्यद्रव्याणि च तत्समवेता अनित्यगुणाश्चेति पूर्ववत् द्वन्द्वः / [कु०] [265] नन्वनियमकथनमित्युक्तं किं सर्वदेवानियमः, तथा सति विशेषाणामेव कार्यकारणभूतानां समवायः, तेषामेवाकार्यकारणभूतानामपि स्यात्, तथा च विरोधः स्यादित्यतो विषयव्यवस्थानियम आह-अवयवावयविनामिति (कं. 325) अयुतसिद्धिनामिति नियम इति (कं. 325) संयोगाद् व्यावर्तकधर्म इति भावः / 'आधार्याधारभतानामि 1 हेतुः समवाय:-दे। 2 अविष्वग्भावेनावस्थितानाम-व्यो. (694) / 3 भन्तन्ति -कं.१, कं.२। समवाय-जे. 1 / 5 भतानां कार्यकारणभतानामकार्यकारणभूतानां यः-कं. 1, कं. 2 / 6 अवधारित प्रत्ययत्वाद् मु., अबाधितनेहप्रत्ययत्वाद्-जे. 1, 2, 3 / 7 दूरादपदशत - अ, दूरादपशत -ब, क। 8 क्रमाः-अ / 9 आधार्याधारभावेनावस्थितानामित्यपीती-कं /