________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 665 प्रशस्तपादभाष्यम्. ततः शरीरादहिरपगतं ताभ्यामेव धर्माधर्माभ्यां समुत्पन्नेनातिवाहिकशरीरेण सम्बध्यते, तत्संक्रान्तं च स्वर्ग नरकं वा गत्वा आशयानुरूपेण शरीरेण सम्बद्धचते, तत्संयोगार्थ कर्मोपसर्पणमिति / न्यायकन्दली ताभ्यां लब्धवृत्तिभ्यामहिकदेहोपभोग्यात् कर्मणोऽन्याभ्यामात्ममनःसंयोगसहायाभ्यांमृतशरीरान्मनसो. विभागकारणमपसर्पणकर्मोत्पद्यते / अपसर्पणकर्मोत्पत्तावात्ममनःसंयोगोऽसमवायिकारणम्, मनः समवायिकारणम्, लब्धवृत्ती धर्माधमौ निमित्तकारणम् / ततस्तदनन्तरं तन्मनो मतशरीरावाहिनिर्गतं ताभ्यामेव लन्धवत्तिभ्यां धर्माधर्माभ्यां सकाशादुत्पन्नेनातिवाहिकशरीरेण सम्बद्धघते / तत्संक्रान्तं तदातिवाहिकशरीरसंक्रान्तं मनः स्वर्ग नरकं वा गच्छति / तत्र गत्वा आशयानुरूपेण कर्मानुरूपेण शरीरेण सम्बद्धयते / स्वर्गे नरके वा यदुपजातं शरीरं तत्र तावन्मनःसम्बन्धेन भवितव्यम्, अन्यथा तस्मिन् देशे भोगासम्भवात् / न चात्मवदगत्वैव मनसो देहान्तरसम्बन्धोऽस्ति, अव्यापकत्वात् / गमनं च तस्यतावद्दरं केवलस्य न सम्भवति, महाप्रलयानन्तरावस्थाव्यतिरेकेणाशरीरस्य मनसः कर्माभावात् / तस्मान्मृतशरीरप्रत्यासन्नमदृष्टवशादुपजातक्रियरणुभिदुर्घणुकादिप्रक्रमेणारब्धमतिसूक्ष्ममनुपलब्धियोग्यं शरीरं [कु०] . अनभ्यासेन वेदानाम् . आचारस्य च वर्य(ज)नात् (आचार्यस्य च वचनात् (?)आलस्यादनं (दीनां)दोषाच्च मृत्युविप्रांजिघं(पा)सतीति (?)नियमेनान्स्यसुखदुःखज्ञानेनैव कर्म विनश्येत्तदेवं वचनमनर्थकमेव स्यादित्यर्थः / - ननु कोऽयं धर्माधर्मयोवृत्तिलाभ इत्यत आह ऐहिकशरोरेति (कं. 310) / मनस आमुष्मिकशरीरसंबन्धे प्रमाणं सूचयितुं तर्कमाह स्वर्ग नरके वेति (कं. ३१०)-प्रमाणं चेदमामुष्मिकशरीरं मनःसंयुक्तमेव भोगं करोति, शरीरत्वात्, ऐहिकशरीरवदिति संयुक्तसंयोगेन सिद्धसाधनतामाशंक्य परिहरि(र)ति 'न चागत्वनेति (कं. 310) आमुष्मिकशरीरजन्यं सुख(ख) तावत्प्राय (यो)देशिकं विम(भ? ) कार्याणां (!)वा समवायिकारणां(णानां ?) चानुरोधेनव 1 संयुज्यते-व्यो. (676), पा. १-दे। 2 पसर्पणाख्यमिति-व्यो. (676) / 3 अपसर्पणोत्पत्ती-जे. 1, जे. 2, जे. 3 / 4 मनो-जे.१। 5 देशान्तर-जे.। ६न चात्मवदगस्वैवेति-कं. 2 / 4