________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 611 प्रशस्तपादभाष्यम् द्रवत्वमुत्पद्यते, ततस्तेषु भोगिनामदृष्टापेक्षादात्माणुसंयोगात् कर्मोत्पत्तौ तज्जेभ्यः संयोगेभ्यो द्वयणुकादिप्रक्रमेण कार्यद्रव्यमुत्पद्यते, तस्मिश्च रूपाद्युत्पत्तिसमकालं कारण गुणप्रक्रमेण द्रवत्वमुत्पद्यत इति / [227] स्नेहोऽपां विशेषगुणः। संग्रहमृजादिहेतुः / अस्यापि गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः / .. [228] संस्कारस्त्रिविधः- वेगो भावना स्थितिस्थापकश्च / तत्र वेगो मतिमत्सु पञ्चसु द्रव्येषु निमित्तविशेषापेक्षात् कर्मणो जायते नियतदिक्रियाप्रबन्धहेतुः स्पर्शवद्द्रव्यसंयोगविशेषविरोधी क्वचित्कारणगुणपूर्वक्रमेणोत्पद्यते। . न्यायकन्दली विभागेभ्यः सपिराधारम्भकसंयोगविनाशात् सपिरादिद्रव्यनिवृत्तौ सत्यां स्वतन्त्रेषु परमाणुष वह्निसंयोगाद् द्रवत्वमुत्पद्यते / तदनन्तरमुत्पन्नद्रवत्वेषु परमाणुष भोगिनामदृष्टापेक्षादात्मपरमाणुसंयोगात् क्रियोत्पत्तौ सत्यां कर्मजेभ्यः परमाणूनां परस्परसंयोगेभ्यो यणुकादिप्रक्रमेण कार्यद्रव्ये जाते रूपाद्युत्पत्तिकाले एव कारणद्रवत्वेभ्यो द्रवत्वमुत्पद्यते। हिमकरकादिविलयनेऽप्येवमेव 'क्रमः / [227] स्नेहोऽपां विशेषगुणः संग्रहमजादिहेतुः / संग्रहः परस्परम'संयुक्तानां सक्त्वादीनां पिण्डीभावप्राप्तिहेतुः संयोगविशेषः / मृजा कायस्योद्वर्तनादिकृता विशुद्धिः / आदि शब्दान्मृदुत्वं च, तेषां हेतुः स्नेहः / अस्यापि गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः / गुरुत्वं च परमाणुषु नित्यम्, कार्ये च कारणगुणपूर्वकमाश्रयविनाशाद्वि'नाशि, तथा स्नेहोपीति / ( // अथ गुणग्रन्थे संस्कारनिरूपणम् // ) 1 गुणपूर्वक्रमेण - व्यो (632) / 2 न्यायः - कं. 1, कं. 2 / 3 मयुक्तानां - कं. 1, कं. 2 / वियुक्तानां - .जे. 3 / 4 शुद्धिः -कं. 1, कं.२। 5 हेतुः स्नेहस्यापि-कं. १.कं. 2 / 6 विनश्यति - जे. 1 /