________________ 49-50] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 227 सर्वसामया मिथ्यादृष्टेत्रिंशतं बनतश्चत्वारिंशत् सत्तास्थानानि / मनुजगति-देवगतिप्रायोग्या तु त्रिंशद् मिथ्यादृष्टेन बन्धमायाति, मनुजगतिप्रायोग्या हि त्रिंशत् तीर्थकरनामसहिता, देवगतिप्रायोग्या त्वाहारक-तीर्थकरनामसहिता, ततः सा कथं मिथ्यादृष्टेर्बन्धमायोति ? / . तदेवमुक्तो मिथ्यादृष्टेर्बन्ध-उदय-सत्तास्थानसंवेधः। सम्प्रति सासादनस्य बन्ध-उदय-सत्तास्थानान्युच्यन्ते-"तिग सत्त दुगं" ति त्रीणि बन्धस्थानानि, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / तत्राष्टाविंशतिर्द्विधा--देवगतिप्रायोग्या नरकगतिप्रायोग्या च / तत्र नरकगतिप्रायोग्या सासादनस्य न बन्धमायाति, देवगतिप्रायोग्यायाश्च बन्धकास्तिर्यक्पञ्चेन्द्रिया मनुष्याश्च / तस्यां चाष्टाविंशतौ बध्यमानायामष्टौ भङ्गाः / तथा सासादना एकेन्द्रिया विकलेन्द्रियास्तिर्यक्पञ्चेन्द्रिया मनुष्या देवा नैरयिकाश्च तिर्यक्पञ्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां वा एकोनत्रिंशतं बघ्नन्ति न शेषाम् / अत्र च भङ्गाश्चतुःषष्टिशतानि 6400, तथाहि-सासादना यदि तिर्यक्पञ्चेन्द्रियप्रायोम्याम् अथवा मनुष्यगतिप्रायोग्याम् एकोनत्रिंशतं बघ्नन्ति तथापि न ते हुण्डसंस्थान सेवातं च संहननं बध्नन्ति, मिथ्यात्वोदयाभावात् / ततश्च तिर्यक्पञ्चेन्द्रियप्रायोग्यामेकोनत्रिंशतं बनतः पञ्चभिः संस्थानैः पञ्चभिः संहननैः प्रशस्ता-प्रशस्तविहायोगतिभ्यां स्थिराऽस्थिराभ्यां शुभा-ऽशुभाभ्यां सुभग-दुर्भगाभ्यां सुस्वर-दुःस्वराभ्याम् आदेया-ऽनादेयाभ्यां यश:कीर्ति-अयशःकीर्तिभ्यां च भङ्गा द्वात्रिंशच्छतानि 3200; एवं मनुष्यगतिप्रायोग्यामपि बनतो द्वात्रिंशच्छतानि 3200; ततः सर्वसङ्ख्यया चतुःषष्टिशतानि 6400 भवन्ति / तथा सासादना एकेन्द्रिया विकलेन्द्रियास्तिर्यक्पञ्चेन्द्रिया मनुष्या देवा नैरयिका वा यदि त्रिंशतं बध्नन्ति तर्हि तिर्यक्पश्चेन्द्रियप्रायोग्यामेवोद्योतसहितां न शेषाम् / तां च बनतां प्रागिव भङ्गकानां द्वात्रिं..शच्छतानि 3200 / सर्वबन्धस्थानभनसङ्ख्या अष्टाधिकानि षण्णवतिशतानि 9608 / उक्तरूपमासमानिरूपणार्थमियमन्तर्भाष्यगाथा'अट्ठ य सय चोवर्द्धि, बत्तीस सया य सार्सणे मेया। अट्ठावीसाईसुं, सव्वाणऽटुहिग छण्णउई // 9 // सुगमा // सासादनस्योदयस्थानानि सप्त, तद्यथा--एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्रैकविंशत्युदय एकेन्द्रिय-विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुव्य-देवानधिकृत्य वेदितव्यः / नरकेषु सासादनो नोत्पद्यत इति कृत्वा तद्विषय एकविंशत्युदयो न गृह्यते / तत्रैकेन्द्रियाणामेकविंशत्युदये बादरपर्याप्तकेन सह यशःकीर्ति-अयश कीर्तिभ्यां यौ द्वौ भनौ तावेव सम्भवतः, न शेषाः, सूक्ष्मेषु अपर्याप्तकेषु च मध्ये सासादनस्योत्पादाभावात् / अत एव विकलेन्द्रियाणां तिर्यक्पञ्चेन्द्रियाणां मनुष्याणां च प्रत्येकमपर्याप्तकेन सह य एकैको भगः स इह न सम्भवति, किन्तु शेषा एव / ते च विकलेन्द्रियाणां द्वौ द्वौ इति षट्, तिर्य..१ सं०१ सं० 2 त० म० °कद्विकनामस // 2 मुद्रि० °याति ? इति // 3 मुद्रि० °न्ति, तथा'खाभाब्यात; त॥ 4 अत्र 217 पृष्ठगता 9 संख्याका टिप्पणी अवलोकनीया // 5 मद्रि० चोसदि / छा० चउसडिं। म० चउसट्ठी // 6 छा० मुद्रि० °सणे भणि° //