________________ 222 मल्यगिरिमहर्षिविनिर्मितविवृस्युपेतं [गाथाः तूदयस्थानेषु त्रिषु प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि, तद्यथा—अष्टाविंशतिः सप्तविंशतिः / षड्विंशतिश्च / सर्वसङ्ख्यया दश / सासादने एकविंशतिर्बन्धस्थानं त्रीण्युदयस्थानानि, तद्यथासप्त अष्टौ नव / एतेषु प्रत्येकमेकैकं सत्तास्थानम् , तद्यथा-अष्टाविंशतिः / सर्वसङ्ख्यया त्रीणि सत्तास्थानानि / सम्यग्मिथ्यादृष्टौ बन्धस्थानं सप्तदश त्रीण्युदयस्थानानि, तद्यथा-सप्त अष्टौ नव / एतेषु प्रत्येकं त्रीणि त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशतिः चतुर्विंशतिश्च / सर्वसङ्ख्यया नव / अविरतसम्यग्दृष्टौ बन्धस्थानं सप्तदश चत्वार्युदयस्थानानि; तद्यथाषट् सप्त अष्टौ नव / तत्र षड्डुदये त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिश्च / सप्तोदये पञ्च सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः प्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च / एतान्येव पञ्च अष्टोदये / नवोदये चत्वारि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः / सर्वसङ्ख्यया सप्तदश / देशविरते त्रयोदश बन्धस्थानं चत्वार्युदयस्थानानि, तद्यथा-पश्च षट् सप्त अष्टौ / तत्र पञ्चकोदये त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः। षडुदये पश्च सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिः / एतान्येव पञ्च सप्तोदयें अष्टोदये . एकविंशतिवर्जानि शेषाणि चत्वारि / सर्वसङ्ख्यया सप्तदश / प्रमत्तसंयते बन्धस्थानं नव चत्वार्युदयस्थानानि, तद्यथा-चत्वारि पञ्च षट् सप्त / तत्र चतुरुदये त्रीणि सत्तास्थानानि, तद्यथाअष्टाविंशतिः चतुर्विंशतिः एकविंशतिश्च / पञ्चकोदये पञ्च सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च / एतान्येव पञ्च षड्डदये / सप्तोदये चत्वारि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः / सर्वसङ्ख्यया सप्तदश / एवमप्रमत्तेऽपि बन्ध-उदय-सत्तास्थानसंवेधोऽन्यूनातिरिक्तो वक्तव्यः / अपूर्वकरणे बन्धस्थानं नव श्रीण्युदयस्थानानि, तद्यथा—चत्वारि पञ्च षट् / एतेषु प्रत्येकं त्रीणि त्रीणि, सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिश्च / सर्वसङ्ख्यया नव / अनिवृत्तिबादरे पञ्च बन्धस्थानानि, तद्यथा-पञ्च चत्वारि त्रीणि द्वे एकं च / तत्र पञ्चके बन्धस्थाने द्विकोदये षट् सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः त्रयोदश द्वादश एकादश / चतुष्के बन्धस्थाने एकोदये षट् सत्तास्थानानि, तद्यथा--अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः एकादश पञ्च चत्वारि / त्रिके बन्धस्थाने एकोदये पश्च सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः चत्वारि त्रीणि च / द्विके बन्धस्थाने एकोदये पञ्च सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः त्रीणि द्वे च / एकविधे बन्धस्थाने एकोदये पञ्च सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः द्वे एकं च / सर्वसङ्ख्यया सप्तविंशतिः / बन्धाभावे सूक्ष्मसम्पराये एकोदये चत्वारि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः एकं च / उपशान्तमोहे बन्ध-उदयौ न स्तः, सत्तास्थानानि पुनस्त्रीणि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः / सर्वत्रापि च सत्तास्थाने भावना यथा अधस्तादोघसंवेधचिन्तायां कृता तथाऽत्रापि कर्तव्या // 48 // 1 सं० छा० मुद्रि० मा प्रागध //