________________ 17-48] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 221 जातानि विंशानि चत्वारि शतानि 420 / अपूर्वकरणे विंशतिः, सा एकया लेश्यया गुणिता सैव विंशतिर्भवति / ततः सर्वसङ्ख्यया जातानि द्विनवत्यधिकानि पञ्चदश शतानि 1592 / एतानि च चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते जातान्यष्टत्रिंशत् सहस्राणि द्वे शते अष्टापिके 38208 / ततो द्विकोदयैकोदयपदान्येकोनत्रिंशत् प्रक्षिप्यन्ते, ततो जातान्यष्टत्रिंशत् सहसाणि द्वे शते सप्तत्रिंशदधिके 38237 / एतावन्ति लेश्यागुणितानि पदवृन्दानि / उक्तं च तिर्गहीणा तेवन्ना, सया य उदयाण होति लेसाणं 5297 / अडतीस सहस्साई, पयाण सय दो य सगतीसा 38237 // ( ) // 47 // तदेवमुक्तानि सप्रपञ्चमुदयस्थानानि / साम्प्रतं सत्तास्थानान्यभिधीयन्ते तिण्णेगे एगेगं, तिग मीसे पंच चउसु नियहिए तिन्नि। एकार बायरम्मी, सुहुमे चउ तिनि उवसंते // 48 // 'एकस्मिन्' मिथ्यादृष्टौ त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशतिः षड़िशतिः। अत्र भावना प्रागेवोक्ता / तथा 'एकस्मिन्' सासादने एकं सत्तास्थानम्, तद्यथा-अष्टाविंशतिः / मिश्रे त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशतिश्चतुर्विंशतिश्च / तथा 'चतुर्यु' अविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता-ऽप्रमत्तरूपेषु प्रत्येकं पञ्च पञ्च सत्तास्थानानि, तद्यथा-- अष्टाविंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च / 'निवृत्तौ' अपूर्वकरणे त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिश्च / तत्राद्ये द्वे उपशमश्रेण्याम्, एकविंशतिः क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां क्षपकश्रेण्यां वा / “एक्कार बायरम्मि" ति 'बादरे' अनिवृत्तिबादरे एकादश सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः त्रयोदश द्वादश एकादश पञ्च चतसः तिस्रः द्वे एका च / तत्राद्ये द्वे औपशमिकसम्यग्दृष्टेः, एकविंशतिः क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां अथवा क्षपकश्रेण्यामपि यावत् कषायाष्टकं न क्षीयते, कषायाष्टके तु क्षीणे त्रयोदश, नपुंसकवेदे क्षीणे द्वादश, ततः स्त्रीवेदे क्षीणे एकादश, षट्सु नोकषायेषु क्षीणेषु पञ्च, ततः पुरुषवेदे क्षीणे चतस्रः, ततः संज्वलनक्रोधे क्षीणे तिसः, संज्वलनमाने क्षीणे द्वे, ततः संज्वलनमायायां क्षीणायां एकेति / “सुहुमे चउ" ति सूक्ष्मसम्पराये चत्वारि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिः एका च / तत्राद्यानि त्रीणि उपशमश्रेण्याम् , एका प्रकृतिः क्षपकश्रेण्याम् / 'उपशान्ते' उपशान्तमोहे त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिः एकविंशतिश्च // - सम्प्रति संवेध उच्यते-तत्र मिथ्यादृष्टौ द्वाविंशतिबन्धस्थानं चत्वार्युदयस्थानानि, तद्यथा-सप्त अष्टौ नव दश / तत्र सप्तोदये अष्टाविंशतिरूपमेकं सत्तास्थानम् / अष्टादिषु सं० सं०२कले // 2 त्रिकहीनानि त्रिपश्चाशत् शतानि च उदयानां भवन्ति लेश्यानाम् / अष्टत्रिंशत् सहस्राणि पदानां शते द्वे च सप्तत्रिंशे // 3 म० °सु तिगऽपुग्वे / एष एव पाठः समीचीनो भाति, पर विवृतिकृद्भिः "नियट्टिए तिनि" इति पाठमनुसृत्य विवृतत्वादस्माभिर्मूले एष एवादृतः //