________________ 207 37-39] चन्द्रर्षिमह तरकृतं सप्ततिकाप्रकरणम् / नत्रिंशत् त्रिंशद् एकत्रिंशद् नव अष्टौ च / तत्र विंशत्युदये द्वे सत्तास्थाने, तद्यथा-एकोनाशीतिः पञ्चससलिश्च / एते एव पड्रिंशत्युदया-ऽष्टाविंशत्युदययोरपि प्रत्येक द्रष्टव्ये / एकविंशत्युदये इमे द्वे सत्तास्थाने-अशीतिः षट्सप्तप्तिश्च / ते एव सप्तविंशत्युदयेऽपि / एकोनत्रिंशदुदये। चत्वारिं सतास्थानानि, तद्यथा-अशीतिः षट्सप्ततिः एकोनाशीतिः पञ्चसप्ततिश्च / एकोनत्रिंशदुदयो हि तीर्भकरेऽतीर्थकरे च प्राप्यते, तत्र तीर्थकरमधिकृत्याये द्वे सत्तास्थाने, अतीर्थकरमधिकृत्य पुनरन्तिमे / एवं त्रिंशदुदयेऽपि चत्वारि / एकत्रिंशदुदये द्वे-अशीतिः षट्सप्ततिश्च / नकोदेये त्रीणि, तद्यथा—अशीतिः षट्सप्ततिः नव च / तत्राद्ये द्वे तीर्थकरस्यायोगिकेवलिनो द्विचरमसमयं यावत् प्राप्येते, चरमसमये तु नव। अष्टोदये त्रीणि, तद्यथाएकोमाशीतिः पञ्चसप्ततिः अष्टौ च / तत्राये द्वे अतीर्थकरस्यायोगिकेवलिनो द्विचरमसमयं यावत्, चरमसमये त्वष्टाविति / सर्वसमुदायेन संज्ञिनां चतुस्त्रिंशदधिके द्वे शते 234 सत्तास्थानानाम् // 37 / 38 // तदेवं जीवस्थानान्यधिकृत्य स्वामित्वमुक्तम् / सम्प्रति गुणस्थानान्यधिकृत्याह नाणंतराय तिविहमवि दससु दो होति दोसु ठाणेसुं। मिथ्यादृष्टिप्रभृतिषु सूक्ष्मसम्परायपर्यन्तेषु दशसु गुणस्थानकेषु ज्ञानावरणमन्तरायं च 'त्रिविधमपि' बन्ध-उदय-सत्तापेक्षया त्रिप्रकारमपि भवति, मिथ्यादृष्ट्यादिषु दशसु गुणस्थानकेषु ज्ञानावरणस्यान्तरायस्य च पञ्चविधो बन्धः पञ्चविध उदयः पञ्चविधा सत्ता इत्यर्थः / 'द्वयोः पुनर्गुणस्थानकयोः' उपशान्तमोह-क्षीणमोहरूपयोः 'द्वे' उदय-सत्ते स्तः, न बन्धः, बन्धस्य सूक्ष्मसम्पराये व्यवच्छिन्नत्वात् / एतदुक्तं भवति–बन्धाभावे उपशान्तमोहे क्षीणमोहे च ज्ञानावरणीयाऽन्तस्ययोः प्रत्येकं पञ्चविध उदयः पञ्चक्धिा च सत्ता भवतीति; परत उदय-सत्तयोरप्यभावः / मिच्छासाणे विइए, नव चउ पण नव य संतंसा // 39 // ... 'द्वितीये' द्वितीयस्य दर्शनावरणस्य मिथ्यादृष्टौ सासादने च नवविधो बन्ध., चतुर्विधः पञ्चविधो वा उदयः, नवविधा सौ, द्वयोरप्यनयोर्गुणस्थानकयोः स्त्यानर्द्धित्रिकस्य नियमतो बन्धात् / “मबय संतंस" त्ति नव च 'सत्तांशाः' सत्ताभेदाः सत्प्रकृतय इत्यर्थः / एतेन च द्वौ विकल्पो दर्शितौ, तद्यथा-नबविधो बग्धश्चतुर्विध उदयो नवविधा सत्ता, अथवा नवविधो बन्धः पञ्चविध उदयो नवविधा सत्ता // 39 // 1 सं० 2 °श्च / एते च स° // 2 सं० 1 त० म० °दयेऽपि त्री° // ___.. अत्र सं०२ पुस्तके-"चतुर्दशसु जीवस्थामेषु सर्वसङ्ख्यया, सत्ताविकल्पाः 1330 " इति टिप्पणक वर्तते // सं 1 त०म० पुस्तकेषु वित उर्ध्वम्-" तदेवं चतुर्दशसु जीवस्थानेषु सर्वसङ्ख्यया सत्तास्यामानि ' 1130 " इति पाठः टीकान्तरेव दश्यते / सं० छा० मुद्रि० पुस्तकेषु च सर्वथा नास्ति / / 4 सं० 1 त० म० °त्ता इत्यर्थः / छा० मुद्रि० °त्ता इति द्वौ विकल्पौ द्वयोर //