________________ 206 . मलयगिरिमहर्षिविनिर्मितधिवृत्युपेतं [गायाः देवानां प्रश्चविंशतिबन्धकानां पञ्चविंशत्युदये सप्तविंशत्युदये च द्वे द्वे सत्तास्थाने, तद्यथाछिनबतिरष्टाशीतिश्च / एतानि च प्रांगुक्तषड्विंशतिसत्तास्थानापेक्षयाऽधिकानि प्राप्यन्ते इति सर्पसहलया पञ्चविंशतिबन्धकानां त्रिंशत् / एवं षड्विंशतिबन्धकानामपि त्रिंशत् / अष्टाविंशतिबन्धकामामष्टावुदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशच्चेति / तत्रैकविंशतौ द्वे सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च / एते एव द्वे पञ्चविंशति-षड्विंशति-सप्तविंशति-अष्टाविंशति-एकोनत्रिंशदुदयेष्वपि प्रत्येक वक्तव्ये / त्रिंशदुदये चत्वारि, तद्यथा-द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिश्च / एतेषां च भावना प्रागेवाष्टाविंशतिबन्धे संवेधचिन्तायां विस्तरेण कृतेति न भूयः क्रियते, विशे. षाभावाद् ग्रन्थगौरवभयाच्च / एकत्रिंशदुदये त्रीणि सत्तास्थानानि, तद्यथा-द्विनवतिः अष्टाशीतिः पडशीतिश्च / सर्वसङ्ख्यया अष्टाविंशतिबन्धकानामेकोनविंशतिः सत्तास्थानानि / एकोनत्रिंशद्वन्धकानां सत्तास्थानानि पश्चविंशतिबन्धकानामिव भावनीयानि, तानि च त्रिंशत् / नवरमन्त्र विशेषो भण्यते-अत्रिरतसम्यग्दृष्टेदेवगतिप्रायोग्यामेकोनविंशतं बनतः एकविंशति-पड्विंशतिअष्टाविंशति-एकोनत्रिंशत्-त्रिंशदुदयेषु प्रत्येकं द्वे द्वे सत्तास्थाचे भवतः, तद्यथा-त्रिनवतिः एकोननवतिश्च / पञ्चविंशत्युदये सप्तविंशत्युदये च वैक्रियसंयत-संयतासंयतानधिकृत्य ते एव द्वे द्वे सत्तास्थाने / अथवा आहारकसंयतानधिकृत्य पञ्चविंशत्युदये सप्तविंशत्युदये च त्रिनवतिः, नैरयिक तीर्थकरसत्कर्माणं मिथ्यादृष्टिमधिकृत्यैकोननवतिः / सर्वाणि चतुर्दश / सर्वसङ्घपया एकोनत्रिंशद्वन्धकानां सत्तास्थानानि चतुश्चत्वारिंशत् / त्रिंशद्वन्धकानामपि सत्तास्थानानि पञ्चविंशतिबन्धकानामिव भावनीयानि, तानि च त्रिंशत् / केवलं देवानां मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशतं बनतां एकविंशति-पञ्चविंशति-सप्तविंशति-अष्टाविंशति-एकोनत्रिंशत्त्रिंशदुदयेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा-त्रिनवतिरेकोननवतिश्च / एतानि च द्वादश, ततः सर्वसङ्ख्यया त्रिंशद्वन्धकानां द्विचत्वारिंशत् सत्तास्थानानि / एकत्रिंशद्वन्धकानामेकमेव त्रिनवतिरूपं सत्तास्थानम् , एकत्रिंशतं हि तीर्थकरा-ऽऽहारकसहितामेव बध्नाति, ततस्तीर्थकराऽऽहारकयोरपि सत्तायां प्रक्षेपे त्रिनवतिरेव भवति / एकविधबन्धकानामष्टौ सत्तास्थानानि, तद्यथा--त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च / तत्राद्यानि चत्वार्युपशमश्रेण्याम् अथवा क्षपकश्रेण्यां यावद् नाद्यापि त्रयोदश नामानि क्षीयन्ते, तेषु तु क्षीणेषु उपरितनानि चत्वारि सत्तास्थानानि लभ्यन्ते / बन्धाभावे संज्ञिपर्याप्तानामष्टौ सत्तास्थानानि, तानि चानन्तरोक्तान्येक द्रष्टव्यानि; केवलमायानि चत्वार्युपशान्तमोहगुणस्थानके, उपरितनानि तु चत्वास्क्षिीणमोहगुणस्थानके / तदेवं सर्वसङ्ख्यया संक्षिपर्याप्तानां द्वे शते सत्तास्थानानामष्टाधिके 208 / यदि पुनद्रव्यमनोऽभिसम्बन्धात् केवलिनोऽपि संज्ञिनो विवक्ष्यन्ते तदानीं केवलिसत्कानि षड्रिंशतिसत्तास्थानान्यपि भवन्ति / तथाहि केवलिमां दश उदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः षड्दिशतिः सप्तविंशतिः अष्टाविंशतिः एको 1 सं० छा०, प्राकनष० // 2 सं० 1 त० म० स्थाने भवतः / अथ // 3 सं० 1 त० म० र्वाग्यपि चतु° //