________________ 182 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः एगिदियउदएसुं, पंच य एक्कार सत्त तेरस या।। छक्कं कमसो भंगा, बायाला हुंति सधे वि // ( ) द्वीन्द्रियाणामुदयस्थानानि षट्, तद्यथा—एकविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्र तिर्यग्गतिस्तिर्यगानुपूर्वी द्वीन्द्रियजातिस्रसनाम बादरनाम पर्याप्ता-ऽपर्याप्तयोरेकतरं दुर्भगम् अनादेयं यश कीर्ति-अयशःकीोरेकतरा इत्येता नव प्रकृतयो द्वादशसङ्ख्याभिर्बुवोदयाभिः सह एकविंशतिः / एषा चापान्तरालगतौ वर्तमानस्य द्वीन्द्रियस्यावाप्यते / अत्र भङ्गास्त्रयः, तद्यथा-अपर्याप्तकनामोदये वर्तमानस्य अयशःकीर्त्या सह एकः, पर्याप्तकनामोदये वर्तमानस्य यश कीर्ति-अयशःकीर्तिभ्यां द्वाविति / तस्यैव च शरीरस्थस्य औदारिकम् औदारिकाङ्गोपाङ्गं हुण्डसंस्थान सेवार्तसंहननम् उपघातं प्रत्येकमिति षट् प्रकृतयः प्रक्षिप्यन्ते तिर्यगानुपूर्वी चापनीयते जाता षड्विंशतिः, अत्रापि भङ्गास्त्रयः, ते च प्रागिव द्रव्याः / ततः शरीरपर्याप्त्या पर्याप्तस्य अप्रशस्तविहायोगति-पराघातयोः प्रक्षिप्तयोरष्टाविंशतिः, अत्र यशःकीर्ति-अयशःकीर्तिभ्यां द्वौ भङ्गो, अपर्याप्तक-प्रशस्तविहायोगत्योरत्रोदयाभावात् / ततः प्राणापानपर्यास्या पर्याप्तस्य उच्छासे प्रक्षिप्ते एकोनत्रिंशत् , अत्रापि तावेव द्वौ भनौ / अथवा शरीरपर्याप्त्या पर्याप्तस्य उच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशत् , अत्रापि प्रागिव द्वौ भङ्गौ / सर्वेऽप्येकोनविंशति चत्वारो भङ्गाः / ततो भाषापर्यास्या पर्याप्तस्य उच्छाससहितायामेकोनविंशति सुखर-दुःस्वरयोरेकतरस्मिन् प्रक्षिप्ते त्रिंशद् भवति, अत्र सुस्वर-दुःस्वर-यशःकीर्तिअयशःकीर्तिपदैश्चत्वारो भङ्गाः / अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनानि तूदिते त्रिंशद् भवति, अत्र यशःकीर्ति-अयशःकीर्तिविकल्पाभ्यां द्वौ भनौ, सर्वे त्रिंशति षड् भङ्गाः। ततो भाषापर्याप्त्या पर्याप्तस्य स्वरसहितायां त्रिंशति उद्योतनानि प्रक्षिप्ते एकत्रिंशद् भवति, अत्र सुस्वर-दुःस्वर-यशःकीर्ति-अयशःकीर्तिपदैश्चत्वारो भङ्गाः / सर्वसञ्जयया द्वीन्द्रियाणां द्वाविंशतिर्भङ्गाः / एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां च प्रत्येकं षट् षड् उदयस्थानानि भावनीयानि, नवरं द्वीन्द्रियजातिस्थाने त्रीन्द्रियाणां त्रीन्द्रियजातिः, चतुरिन्द्रियाणां चतुरिन्द्रियजातिरभिधातव्या, प्रत्येकं च भङ्गा द्वाविंशति-विंशतिरिति / सर्वसङ्ख्यया विकलेन्द्रियाणां भङ्गाः षट्षष्टिः 66 / तदुक्तम् तिर्गं तिग दुग चउ छ चउ, विगलाण छसहि होइ तिण्हं पि / ( ) प्राकृततिर्यक्पञ्चेन्द्रियाणामुदयस्थानानि षट्, तद्यथा—एकविंशतिः षड्विंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / तत्र तिर्यग्गतिस्तिर्यगानुपूर्वी पञ्चेन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्ता-ऽपर्याप्तयोरेकतरं सुभग-दुर्भगयोरेकतरम् आदेया-ऽनादेययोरेकतरं यशःकीर्ति-अयशःकीर्यो रेकतरा इत्येता नव प्रकृतयो द्वादशसक्याभिर्बुवोदयाभिः सह एकविंशतिः, 1 एकेन्द्रियोदयेषु पञ्च चैकादश सप्त त्रयोदश च / षद क्रमशो भगा द्विचत्वारिंशद् भवन्ति सर्वेऽपि // 2 सं० 1 म० शद् भवति, अत्रा // 3 सं०१ °पि तावेव // 4 त० "स्य दुःस्व // 5 तक स्य सुस्वर॥६ त्रिकः त्रिको द्विकश्चत्वारः षद चत्वारो विकलानां षट्षष्टिर्भवति त्रयाणामपि //