________________ 25-26] चन्द्रषिमहत्तरकृतं सप्ततिकाप्रकरणम् / 181 शतिः सप्तविंशतिश्च / तत्र तैजस-कार्मणे अगुरुलघु स्थिरा-ऽस्थिरे शुभा-ऽशुमे वर्ण-रस-गन्ध-स्पर्शा निर्माणमित्येता द्वादश प्रकृतय उदयमाश्रित्य ध्रुवाः / एताः तिर्यग्गतिः तिर्यगानुपूर्वी स्थावरनाम एकेन्द्रियजातिः बादर-सूक्ष्मयोरेकतरं पर्याप्ता-ऽपर्याप्तयोरेकतरं दुर्भगम् अनादेयं यशःकीर्तिअयशःकीर्यो रेकतरा इत्येतन्नवप्रकृतिसहिता एकविंशतिः। अत्र भङ्गाः पञ्च-बादर-सूक्ष्माभ्यां प्रत्येकं पर्याप्ता-ऽपर्याप्ताभ्यामयशःकीर्त्या सह चत्वारः, बादर-पर्याप्त-यशःकीर्तिभिः सह एक इति / सूक्ष्मा-ऽपर्याप्ताभ्यां सह यशःकीर्तेरुदयो न भवतीति कृत्वा तदाश्रिता विकल्पा न प्राप्यन्ते / एषा चैकविंशतिरेकेन्द्रियस्यापान्तरालगतौ वर्तमानस्य वेदितव्या। ततः शरीरस्थस्यौदारिकशरीरं हुण्डसंस्थानम् उपघातं प्रत्येक-साधारणयोरेकतरमिति चतस्रः प्रकृतयः प्रक्षिप्यन्ते तिर्यगानुपूर्वी चापनीयते ततश्चतुर्विंशतिर्भवति / अत्र च भङ्गा दश, तद्यथा-बादरपर्याप्तस्य प्रत्येक-साधारणयशःकीर्ति-अयशःकीर्तिपदैश्चत्वारः, अपर्याप्तबादरस्य प्रत्येक-साधारणाभ्यामयशःकीर्त्या सह द्वौ, सूक्ष्मस्य पर्याप्ता-ऽपर्याप्त-प्रत्येक-साधारणैरयशःकीर्त्या सह चत्वार इति दश / बादरवायुकायिकस्य वैक्रियं कुर्वत औदारिकस्थाने वैक्रियं वक्तव्यम्, ततश्च तस्यापि चतुर्विशतिरुदये प्राप्यते, केवलमिह बादर-पर्याप्त प्रत्येका-ऽयशःकीर्तिपदैरेक एव भङ्गः / तेजस्कायिक-वायुकायिकयोः साधारण-यशःकीर्युदयो न भवतीति तदाश्रिता विकल्पा न प्राप्यन्ते / सर्वसत्यया चतुर्विशतौ एकादश भनाः / ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः / अत्र भङ्गाः षद्, तद्यथा—बादरस्य प्रत्येक साधारण-यशःकीर्ति-अयश कीर्तिपदैश्चत्वारः, सूक्ष्मस्य प्रत्येक साधारणाभ्यामयशःकीर्त्या सह द्वौ / तथा बादरवायुकायिकस्य वैक्रियं कुर्वतः शरीरपर्याप्त्या पर्यासस्य (ग्रन्थानम् 1238) पराघाते क्षिप्ते पञ्चविंशतिर्भवति, अत्र च प्राग्वदेक एव भङ्गः / सर्वसङ्ख्यया पञ्चविंशतौ सप्त भङ्गाः / ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छासे प्रक्षिप्ते षड्विंशतिः, अत्रापि भङ्गाः प्रागिव षट् / अथवा शरीरपर्यात्या पर्याप्तस्य उच्छ्वासेऽनुदिते आतपउद्योतयोरन्यतरस्मिन्नुदिते षड्विंशतिर्भवति / अत्रापि भङ्गाः षट् , तद्यथा—बादरस्योद्योतेन सहितस्य प्रत्येक साधारण-यशःकीर्ति-अयशःकीर्तिपदैश्चत्वारः, आतपसहितस्य च प्रत्येक यशःकीर्तिअयशःकीर्तिपदैौ / बादरवायुकायिकस्य वैक्रियं कुर्वतः प्राणापानपर्याप्स्या पर्याप्तस्य उच्चासे प्रक्षिप्ते प्रागुक्ता पञ्चविंशतिः षड्विंशतिर्भवति, तत्र च प्राग्वदेक एव भङ्गः। तेजस्कायिक-वायुकायिकयोरातप-उद्योत-यशःकीर्तीनामुदयाभावात् तदाश्चिता विकल्पा न प्राप्यन्ते / सर्वसङ्ख्यया षड्विंशतौ त्रयोदश भङ्गाः। तथा प्राणापानपर्याप्त्या पर्याप्तस्य उच्छाससहितायां षड्विंशतौ आतपउद्योतयोरन्यतरस्मिन् प्रक्षिप्ते सति सप्तविंशतिर्भवति, अत्र भङ्गाः षड्, ये प्रागातप-उद्योतान्यतरसहितायां षड्विंशतौ प्रतिपादिताः / सर्वसङ्घषया चैकेन्द्रियाणां भङ्गाः द्विचत्वारिंशत् 42 / उक्तं च 1 सं० सं० 1 त० °वतीति तदा // 2 सं० 1 त० शतिः / अत्र // 3 सं० सं० १त० म० छा० °से क्षिप्ते / एवमप्रेऽपि 'प्रक्षिप्ते' इत्येतत्स्थाने क्षिप्ते, 'क्षिप्ते' इत्येतस्स्थाने 'प्रक्षिप्ते' इति पाठान्तराणि सन्ति //