SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 16] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 167 म्यग्दृष्टीनां क्षायिकसम्यग्दृष्टीनां च अविरतसम्यग्दृष्टीनां अनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद् युगलमिति षण्णामुदयो ध्रुवः / अत्र प्रागिव भङ्गकानामेका चतुर्विशतिः / अस्मिन्नेव षट्के भये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते सप्तानामुदयः / अत्र भयादिषु प्रत्येकमेकैका चतुर्विशतिः प्राप्यत इति तिसश्चतुर्विशतयः / तथा तस्मिन्नेव षट्के भय-जुगुप्सयोर्भय-वेदकसम्यक्त्वयोर्जुगुप्सा-वेदकसम्यक्त्वयोर्वा प्रक्षिप्तयोरष्टानामुदयः / तत्राप्येकैकस्मिन् विकल्पे भङ्गकानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः / भय-जुगुप्सा-वेदकसम्यक्त्वेषु च युगपत् प्रक्षिप्तेषु नवानामुदयः, अत्र चैका भङ्गकानां चतुर्विंशतिः / अविरतसम्यग्दृष्टीनां सर्वाश्चतुर्विंशतयोऽष्टौ / सर्वसङ्ख्यया सप्तदशबन्धे द्वादश चतुर्विंशतयः। "तेरे पंचाइ अटेव" त्रयोदशके बन्धस्थाने पञ्चादीन्यष्टपर्यन्तानि चत्वार्युदयस्थानानि भवन्ति, तद्यथा-पञ्च षट् सप्त अष्टौ / तत्र प्रत्याख्यानावरण-संज्वलनक्रोधादीनामन्यतमौ द्वौ क्रोधादिकौ, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद् युगलमित्येतासां पञ्चानां प्रकृतीनामुदयः त्रयोदशबन्धे ध्रुवः / अत्र प्रागुक्तक्रमेण भङ्गकानामेका चतुर्विंशतिः / भय-जुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते षण्णामुदयः। अत्र भयादिभिस्त्रयो विकल्पाः, एकैकस्मिन् विकल्पे भङ्गकानां चतुर्विशतिरिति तिस्रश्चतुर्विंशतयः / तथा तस्मिन्नेव पञ्चके भय-जुगुप्सयो. रथवा भय-वेदकसम्यक्त्वयोर्यद्वा जुगुप्सा-वेदकसम्यक्त्वयोः प्रक्षिप्तयोः सप्तानामुदयः / अत्रापि तिसश्चतुर्विशतयो भङ्गकानाम् / भय-जुगुप्सा-वेदकसम्यक्त्वेषु पुनर्युगपत् प्रक्षिप्तेष्वष्टानामुदयः, अत्र चैका चतुर्विशतिर्भङ्गकानाम् / सर्वसङ्ख्यया त्रयोदशबन्धे अष्टौ चतुर्विंशतयः // 15 // "चत्तारि" इत्यादि / नवबन्धकेषु प्रमत्तादिषु चतुरादीनि सप्तपर्यन्तानि चत्वारि “उदयंस" ति उदयरूपविभागस्थानानि, उदयस्थानानीत्यर्थः / तद्यथा-चतस्रः पञ्च षट् सप्त / तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिकः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद् युगलमित्येतासां चतसृणां प्रकृतीनामुदयः क्षायिकसम्यग्दृष्टिषु औपशमिकसम्यग्दृष्टिषु वा प्रमत्तादिषु ध्रुवः, अत्र चैका भङ्गकानां चतुर्विशतिः। अस्मिन्नेव चतुष्के भये वा जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते पञ्चानामुदयः, अत्र भङ्गकानां तिस्रश्चतुर्विशतयः / तथा तस्मिन्नेव चतुष्के भय-जुगुप्सयोरथवा भय-वेदकसम्यक्त्वयोर्यद्वा जुगुप्सा-वेदकसम्यक्त्वयोः प्रक्षिप्तयोः पण्णामुदयः, अत्रापि तिसश्चतुर्विशतयो भङ्गकानाम् / भय-जुगुप्सा-वेदकसम्यक्त्वेषु तु युगपत् प्रक्षिप्तेषु सप्तानामुदयः, अत्र भङ्गकानामेका चतुर्विंशतिः / सर्वसङ्ख्यया नवबन्धके अष्टौ चतुर्वि शतयः / “पंचविहा" इत्यादि / पञ्चविधबन्धकेषु पुनरुदयो द्वयोः प्रकृत्योर्ज्ञातव्यः, प्रकृतिद्वया• त्मकमेकमुदयस्थानमिति भावः / तत्र चतुर्णा संज्वलनानामेकतमः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, अत्र त्रिभिदैश्चतुर्भिश्च संज्वलनैर्द्वादश भङ्गाः // 16 // 1 सं०१ त० °षु युग //
SR No.004335
Book TitlePancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherJain Atmanand Sabha
Publication Year1997
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy