________________ 166 मलयगिरिमहर्षिविनिर्मितबिवृत्युपेतं [गाथाः "नव एकवीस" त्ति 'एकविंशतौ' एकविंशतिबन्धे सप्तादीनि नवपर्यन्तानि त्रीणि उदयस्थानानि भवन्ति, तद्यथा—सप्त अष्टौ नव / तत्र सप्त अनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनक्रोधादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद् युगलम् , एतासां सप्तप्रकृतीनामुदयः एकविंशतिबन्धे ध्रुवः / अत्र प्रागुक्तक्रमेण भङ्गकानां चतुर्विंशतिः / तथा तस्मिन्नेव सप्तके भये वा जुगुप्सायां वा क्षिप्तायामष्टानामुदयः / अत्र द्वे चतुर्विशती भङ्गकानाम् / भय-जुगुप्सयोस्तु युगपत् प्रक्षिप्तयोर्नवानामुदयः / अत्र चैका भङ्गकानां चतुर्विंशतिः / सर्वसङ्ख्यया एकविंशतिबन्धे चतस्रश्चतुर्विशतयः / अयं चैकर्विशतिबन्धः सासादने प्राप्यते / सासादनश्च द्विधा, श्रेणिगतोऽश्रेणिगतश्च / तत्राश्रेणिगतं सासादनमाश्रित्यामूनि सप्तादीनि उदयस्थानान्यवगन्तव्यानि / यस्तु श्रेणिगतस्तत्रादेशद्वयम्—केचिदाहुः—अनन्तानुबन्धिसत्कर्मसहितोऽप्युपशमश्रेणि प्रतिपद्यते, तेषां भतेनानन्तानुबन्धिनामप्युपशमना भवति / एतच्च सूत्रेऽपि संवादि, तदुक्तं सूत्रे - अणदसणपुंसित्थी, (आव० नि० गा० 116) इत्यादि। .. श्रेणीतश्च प्रतिपतन् कश्चित् सासादनभावमप्युपगच्छति, सासादनभावं चोपगते यथोक्तानि त्रीणि उदयस्थानानि भवन्ति / अपरे पुनराहुः--अनन्तानुबन्धिनः क्षपयित्वैवोपशमश्रेणिं प्रतिपद्यते न तत्सत्कर्मा, तेषां मतेन श्रेणितः प्रतिपतन् सासादनो न भवति, तस्यानन्तानुबन्ध्युदयासम्भवात् , अनन्तानुबन्ध्युदयसहितश्च साससदन इष्यते, “अणंताणुबंधुदयरहियस्स सासणभावो न संभवइ" ( ) इति वचनात् / अथोच्यते—यदा मिथ्यात्वं प्रत्यभिमुखो न चाद्यापि मिथ्यात्वं प्रतिपद्यते तदानीमनन्तानुबन्ध्युदयरहितोऽपि सासादनस्तेषां मतेन भविष्यतीति किमत्रायुक्तम् ? तदयुक्तम् , एवं सति तस्य षडादीनि नवपर्यन्तानि चत्वार्युदयस्थानानि भवेयुः, न च भवन्ति, सूत्रे प्रतिषेधात् , तैरप्यनभ्युपगमाञ्च, तस्मादनन्तानुक्न्ध्युदयरहितः सासादनो न भवतीत्यवश्यं प्रत्येयम् / __ "छाई नव सत्तरसे" सप्तदशके बन्धस्थाने षडादीनि नवपर्यन्तानि चत्वार्युदयस्थानानि भवन्ति, तद्यथा—षट् सप्त अष्टौ नव / सप्तदशबन्धका हि द्वये सम्यग्मिथ्यादृष्टयोऽविरतसम्यग्दृष्टयश्च / तत्र सम्यग्मिथ्यादृष्टीनां त्रीणि उदयस्थानानि, तद्यथा-सप्त अष्ट नव / तत्रानन्तानुबन्धिवर्जाः त्रयोऽन्यतमे क्रोधादयः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद् युगलम् , सम्यग्मिथ्यात्वं चेति सप्तानां प्रकृतीनामुदयः सम्यग्मिथ्यादृष्टिषु ध्रुवः / अत्र प्रागुक्तक्रमेण भङ्गकानां चतुर्विंशतिः / अस्मिन्नेव सप्तके भये वा जुगुप्सायां वा प्रक्षिप्तायामष्टानामुदयः, अत्र द्वे चतुर्विशती भङ्गकानाम् / भय-जुगुप्सयोस्तु युगपत् प्रक्षिप्तयोर्नवानामुदयः, अत्र चैका चतुर्विशतिर्भङ्गकानाम् / सर्वसङ्ख्यया सम्यग्मिथ्यादृष्टीनां चतस्रश्चतुर्विशतयः / अविरतसम्यग्दृष्टीनां सप्तदशबन्धकानां चत्वार्युदयस्थानानि, तद्यथा-षट् सप्त अष्टौ नव / तत्रौपशमिकस