________________ 164 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः एकविंशतिबन्धे चत्वारो भङ्गाः / तत्र हास्य-रतियुगला-ऽरति-शोकयुगलाभ्यां प्रागिव द्वौ भङ्गो, तौ च प्रत्येक स्त्रीवेदे पुरुषवेदे च प्राप्येते इति द्वौ द्वाभ्यां गुणितौ जाताश्चत्वारः / सैव चैकविंशतिरनन्तानुबन्धिचतुष्टयबन्धाभावे सप्तदश, नवरमत्र वेदेषु मध्ये पुरुषवेद एवैको वक्तव्यः, न स्त्रीवेदोऽपि, यतः सप्तदशबन्धकाः सम्यग्मिथ्यादृष्टयोऽविरतसम्यग्दृष्टयो वा, न चैते स्त्रीवेदं बध्नन्ति, तद्वन्धस्यानन्तानुबन्ध्युदयनिमित्तत्वात्, सम्यग्मिथ्यादृष्ट्यादीनां चानन्तानुबन्ध्युदयाभावात् / अत्र च हास्य-रतियुगला- रति-शोकयुगलाभ्यां प्रागिव द्वौ भङ्गौ / ता एव सप्तदश प्रकृतयोऽप्रत्याख्यानकषायचतुष्टयरहितास्त्रयोदश, अत्रापि प्रागिव द्वौ भङ्गौ, तथा चाह—“सत्तरस तेरसे दो दो" सप्तदशबन्धे त्रयोदशबन्धे च प्रत्येकं द्वौ द्वौ भङ्गौ / ता एव त्रयोदश प्रत्याख्यानावरणचतुष्टयरहिता नव, अत्रापि तावेव द्वौ भङ्गो, यत आह—"नवबंधगे उ दोन्नि उ" नवबन्धके द्वौ भनौ, तौ च प्रमत्ते द्वावपि द्रष्टव्यौ, अप्रमत्ता- पूर्वकरणयोस्त्वेक एव भङ्गः, तत्रारति-शोकरूपस्य युगलस्य बन्धासम्भवात् / तथा ता एव नव हास्य-रतियुगलभय-जुगुप्साबन्धव्यवच्छेदे पञ्च, अत्रैको भङ्गः / एवं चतुः-त्रि-द्वि-एकबन्धेष्वपि प्रत्येकमेकैक एव भङ्गो वाच्यः, तथा चाह—“एक्केक्कमओ परं भंगा" 'अतः' नवकबन्धात् परं पञ्चादिषु भङ्गाः प्रत्येकम् ‘एकैकः' एकैकसङ्ख्या वेदितव्याः / मकारस्त्वलाक्षणिकः / / अमीषां च द्वाविंशत्यादिबन्धस्थानानां कालप्रमाणमिदम् –द्वाविंशतिबन्धस्य कालोऽभव्यानधिकृत्य अनाद्यपर्यवसितः,भव्यानधिकृत्यानादिसपर्यवसितः, सम्यक्त्वपरिभ्रष्टानधिकृत्य जघन्येनान्तर्मुहूर्तप्रमाणः, उत्कर्षतो देशोनोऽपार्धपुद्गलपरावर्तः। एकविंशतिबन्धस्य कालो जघन्येन समयमात्रः,उत्कर्षतः षडावलिकाः / सप्तदशबन्धस्य कालो जघन्येनान्तर्मुहूर्तम् , उत्कर्षतः किञ्चित् सम- . धिकानि त्रयस्त्रिंशत्सागरोपमाणि / तथाहि-त्रयस्त्रिंशत्सागरोपमाणि अनुत्तरसुरस्य प्राप्यन्ते, अनुत्तरसुरभवाच्च च्युत्वा यावदद्यापि देशविरतिं सर्वविरतिं वा न प्रतिपद्यते तावत् सप्तदशबन्ध एवेति किश्चित्समधिकानि त्रयस्त्रिंशत्सागरोपमाणि / त्रयोदशबन्धस्य नवबन्धस्य च काल: प्रत्येकं जघन्येनान्तर्मुहूर्तम् , उत्कर्षतस्तु देशोना पूर्वकोटी, यतस्त्रयोदशबन्धो देशविरतौ नवकबन्धस्तु सर्वविरतौ, देशविरतिः सर्वविरतिश्चोत्कर्षतोऽपि देशोनपूर्वकोटिप्रमाणा / पञ्चादिषु पुनर्बन्धस्थानेषु कालः प्रत्येकं जघन्येनैक समयम् , उत्कर्षेण चान्तर्मुहूर्तम् / एकसमयता कथम् ? इति चेद् उच्यते---उपशमश्रेण्यां पञ्चविधं बन्धमारभ्य द्वितीये समये कश्चित् कालं कृत्वा देवलोकं याति, देवलोके च गतः सन् अविरतो भवति, अविरतत्वे च सप्तदशबन्ध इत्येकसमयता / एवं चतुर्विधबन्धादिष्वपि भावनीयम् // 14 // तदेवं कृता कालनिरूपणा सम्प्रत्येतेषामेव बन्धस्थानानां मध्ये कस्मिन् कियन्ति प्रागुक्तान्युदयस्थानानि भवन्ति ? इत्येतद् निरूप्यते दस बावीसे नव इकवीस सत्ताइ उदयठाणाई। छाई नव सत्तरसे, तेरे पंचाइ अटेव // 15 // 1 मुद्रि० एकैव संख्या / / 2 सं० 1 त० 'नपूर्व //