________________ 11-14] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 163 अटुंगसत्तगछचउतिगदुगएगाहिया भवे वीसा। तेरस बारिकारस, इत्तो पंचाइ एकूणा // 12 // संतस्स पगइठाणाई ताणि मोहस्स हुंति पन्नरस / बंधोदयसंते पुण, भंगविगप्पा बहू जाण // 13 // 'विंशतिः अष्टक-सप्तक-षट्क-चतुः-त्रि-द्वि-एकाधिका, तथा त्रयोदश द्वादश एकादश, 'अतः' एकादशकात् सत्तास्थानाद् ‘एकोनानि' एकैकोनानि पञ्चादीनि सत्तायाः प्रकृतिस्थानानि मोहनीयस्यावगन्तव्यानि, तानि च सर्वसङ्ख्यया पञ्चदश भवन्ति / इदमत्र तात्पर्यम्-मोहनीये पञ्चदश सत्ताप्रकृतिस्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशतिः षड्विंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिः त्रयोदश द्वादश एकादश पञ्च चतस्रः तिस्रः द्वे एका च / तत्र सर्वप्रकृतिसमुदायोऽष्टाविंशतिः। ततः सम्यक्त्वे उद्वलिते सप्तविंशतिः। ततोऽपि सम्यग्मिथ्यात्वे उद्वलिते षड्विंशतिः, अनादिमिथ्यादृष्टेर्वा षड्विंशतिः / अष्टाविंशतिसत्कर्मणोऽनन्तानुबन्धिचतुष्टयक्षये चतुर्विंशतिः / ततोऽपि मिथ्यात्वे क्षपिते त्रयोविंशतिः / ततोऽपि सम्यग्मिथ्यात्वे क्षपिते द्वाविंशतिः / ततः सम्यक्त्वे क्षपिते एकविंशतिः / ततोऽष्टस्वमत्याख्यान-प्रत्याख्यानावरणसंज्ञेषु कषायेषु क्षीणेषु त्रयोदश। ततो नपुंसकवेदे क्षपिते द्वादश / ततोऽपि स्त्रीवेदे क्षपिते एकादश / ततः षट्सु नोकषायेषु क्षीणेषु पञ्च / ततोऽपि पुरुषवेदे क्षीणे चतस्रः / ततोऽपि संज्वलनक्रोधे क्षपिते तिस्रः / ततोऽपि संज्वलनमाने क्षपिते द्वे / ततोऽपि संज्वलनमायायां क्षपितायामेका प्रकृतिः सतीति / तदेवमुक्तानि सत्तास्थानानि / एतेषु पुनर्बन्ध-उदयसत्तास्थानेषु प्रत्येकं संवेधेन च बहवो भङ्गा भवन्ति, तोंश्च भङ्गान् यथावत् प्रतिपाद्यमानान् सम्यग् जानीहि // 12 // 13 // तत्र प्रथमतो बन्धस्थानेषु भङ्गनिरूपणार्थमाह छब्बावीसे चउ इगवीसे सत्तरस तेरसे दो दो। नवबंधगे वि दोन्नि उ, एक्ककमओ परं भंगा // 14 // 'द्वाविंशतौ' द्वाविंशतिबन्धे षड् विकल्पा भवन्ति। तत्र द्वाविंशतिरियम्-मिथ्यात्वं षोडश कषायाः त्रयाणां वेदानामन्यतमो वेदः हास्य-रतियुगलाऽ-रति-शोकयुगलयोन्यतरद् युगलं भयं जुगुप्सा च / अत्र भङ्गाः षट् , तथाहि हास्य-रतियुगले अरति-शोकयुगले च प्रत्येकं द्वाविंशतिः प्राप्यते इति द्वौ भनौ, तौ च द्वौ भङ्गौ त्रिष्वपि वेदेषु प्रत्येकं विकल्पेन प्राप्यते इति द्वौ त्रिभिर्गुणितौ जाताः षट् / सैव द्वाविंशतिर्मिथ्यात्वेन विना एकविंशतिः, नवरमत्र द्वयोर्वेदयोरन्यतरो वेद इति वक्तव्यम्, यत एकविंशतिबन्धकाः सासादनसम्यग्दृष्टयः, ते च स्त्रीवेदं वा बध्नन्ति पुरुषवेदं वा, न नपुंसकवेदम् , नपुंसकवेदबन्धस्य मिथ्यात्वोदयनिबन्धनत्वात् , सासादनानां च मिथ्यात्वोदयाभावात् / अत्र च भनाश्चत्वारः, तथा चाह-"चउ एगवीस" त्ति 'एकविंशतौ' 1 गाथेयं सप्ततिकाभाष्ये एकचत्वारिंशत्तमी // 2 सं०१ सं० त० गप्पे / / 3 सं० म० छा० तत्र सं° // 4 सं०१० सती / त° // 5 सं०१ त० ततश्च भङ्गान् प्रति° //