________________ 124 देवेन्द्रसूरिविरचितः स्वोपशष्टीकोपेतः [गाथाः मिदमुच्यते / व्यवहारनयो हि किञ्चिदूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसतहस्ताविंमानं व्यपदिशति, देशतोऽपि च दृष्टं बाहल्यादिधर्म परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टिस्वादिति भावः / अत एतन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता द्रष्टव्या / आयामविष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणमिदं जातम् , व्यवहारतस्तु तत्रापि सप्तरज्जुप्रमाणता द्रष्टव्या / तदेवं लोको व्यवहारनयमतेन अनायाम-विष्कम्भ-बाहल्यैः प्रत्येकं सप्तरज्जुप्रमाणो घनो भवतीति समुदायार्थः / एतच्च वैशाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तस्वरूपं लोकं संस्थाप्य सर्व भावनीयमिति। प्ररूपितो घनः / सम्प्रति श्रेणिनिरूपणायाह-"तद्दीहेगपएसा सेढि" ति स एव घनीकृतलोकः सप्तरज्जुप्रमाणो दीर्घ दैर्घ्यं यस्याः सा तद्दीर्घा, एकप्रदेशेति वीप्साप्रधानत्वाद् निर्देशस्यैकैकाकाशप्रदेशा शूचिः श्रेणिरित्युच्यते / एतेन च यत्र कुत्राप्यविशेषितायाः श्रेणेः सामान्येन ग्रहणं तत्र सर्वत्रास्य धनीकृतलोकस्य सम्बन्धिनी इयमेव सप्तरज्जुप्रमाणा एकप्रादेशिकीश्रेणिया / ____ अधुना प्रतरं प्ररूपयितुमाह–'प्रतरश्च' प्रतरः पुनः कः ? इत्याह-तद्वर्गः तस्याःशूचिस्वरूपायाः श्रेणेवर्गः-शूच्या शूचिगुणनलक्षणस्तद्वर्गः। कोऽर्थः ? शूच्या शूचेर्गुणनं प्रतर उच्यते / तद्यथा-इहासङ्ख्येययोजनकोटीकोटीदीर्घाऽपि श्रेणिरसत्कल्पनया त्रिप्रदेशप्रमाणा द्रष्टव्या , तस्याश्च तयैव गुणने प्रतरो नवप्रदेशात्मको भवति / स्थापना-::| इति // 97 // - निरूपितः सप्रपञ्चं प्रदेशबन्धस्तत्स्वामी च / तन्निरूपणे च समर्थिता "नमिय जिणं धुवबंधोदयसत्ताघाइपुन्नपरियता / सेयर चउह विवागा, वुच्छं बंधविह सामी य // " इति आधद्वारगाथा / अधुना चशब्दसूचितामुपशमश्रेणि क्षपकश्रेणिं च व्याचिख्यासुः प्रथमं तावदुपशमश्रेणिं प्रकटयन्नाह __अंण दस नपुंसिस्थी, वेय छक्कं च पुरिसवेयं च। ___ दो दो एगतरिए, सरिसे सरिसं उवसमेह // 98 // तत्र प्रथमतोऽनन्तानुबन्धिनामुपशमनाऽभिधीयते-अविरतसम्यग्दृष्टि-देशविरत-प्रमत्ताप्रमत्तानामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः-पद्म-शुक्ललेश्यामामन्यतमलेश्यायुक्तः साकारोपयोगोपयुक्तोऽन्तःसागरोषमकोटीकोटीस्थितिसत्कर्मा करणकालात् पूर्वमप्यन्तर्मुहूर्त कालं यावदवदायमानचित्तसन्ततिरवतिष्ठते। तथाऽवतिष्ठमानश्च परावर्तमानाः प्रकृतीः शुभा एव बध्नाति, नाशुभाः; अशुभानां च प्रकृतीनामनुभागं चतुःस्थानकं सन्तं द्विस्थामकं करोति, शुभानां च द्विस्थानकं सन्तं चतुःस्थान-(ग्रन्थानम्-४०००)कम् ; स्थितिबन्धेऽपि च पूर्णे पूणे सति अन्य स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पश्योपमासङ्ख्येयभागहीनं करोति / इत्थं करणकालात् पूर्वमन्तर्मुहूर्त कालं यावदवस्थाय ततो यथाक्रमंत्रीणि करणानि प्रत्येकमान्तर्मोहूर्तिकानि करोत्ति / तद्यथा-यथाप्रवृत्तकरणम् अपूर्वकरणम् अनिवृसिकरणं चतुर्थी तूपशाम्ताद्धा / तत्र यथाप्रवृ 1 गाथेयं आवश्यकनियुक्तौ 116 तमा / अस्या गाथायाष्टीका तु सप्ततिकाप्रकरणस्य " पढमकसायचउर्फ " इत्यस्या गाथायाटीकासमा //