________________ 97] शतफनामा पञ्चमः कर्मग्रन्थः / 123 सा च धनीकृतलोकस्वरूपप्ररूपणापूर्विकैव च वक्तुं शक्यतेऽतः प्रसङ्गतो घनस्वरूपमन्यत्र बहुस्थानोपयोगित्वात् प्रतरस्वरूपं च प्रचिकटयिषुराह चउंदसरज्जू लोओ, बुद्धिकओ होइ सत्तरज्जुघणो। तद्दीहेगपएसा, सेढी पयरो य तव्वग्गो // 97 // - चतुर्दश रज्जवो यस्य स चतुर्दशरज्जुः, रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवेदिकान्तं यावद् दक्षिणोत्तरवेदिकान्तं वा यावदवसेयम् , उच्छ्यमानमिदमस्य, अधस्ताद् देशोनसप्तरज्जुविस्तरः, तिर्यग्लोकमध्ये एकरज्जुविस्तरः, ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः, उपरि तु लोकान्ते एकरज्जुविस्तृतः, शेषस्थानेषु पुनः कोऽपि कियानस्य विस्तर इति / तदेवंरूपो लोकः 'बुद्धिकृतः' मतिपरिकल्पनया विहितः भवति' सम्पद्यते / किंरूपो भवति ! इत्याह-सप्त रज्जवः प्रमाणतया यस्य स सप्तरज्जुः, स चासौ घनश्च-समचतुरस्र आयामविष्कम्भबाहल्यैस्तुल्यत्वात् सप्तरज्जुधनः / स चेत्थं बुद्ध्या विधीयते-इह रज्जुविस्तीर्णायास्त्रसनाज्या दक्षिणदिग्वबंधोलोकखण्डमधो देशोनरज्जुत्रयविस्तृतं क्रमेण हीयमानविस्तरं तावद् यावदुपरिष्टाद् रज्जु(ज्व)सङ्ख्येयभागविस्तरं सातिरेकसप्तरज्जूच्छूयं गृहीत्वा त्सनाडिकाया एवोत्तरदिग्भागे विपरीतं योज्यते, उपरितनं भागमधः कृत्वाऽधस्तनं चोपरि विधाय सङ्घात्यते इत्यर्थः; एवं च कृतेऽधस्तनं लोकस्याधं सातिरेकसप्तरज्जूच्छ्रितं किश्चिदूनरज्जुचतुष्टयविस्तीर्ण बाहल्यतोऽप्यधः कचिद् देशोनसप्तरज्जुमानमन्यत्र पुनरनियतबाहल्यं जायते / इदानीमुपरितनलोकाधू संवर्त्यते-तत्रापि रज्जुविस्तरायास्त्रसनाडिकाया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रह्मलोकमध्ये प्रत्येकं द्विरज्जुविस्तरे उपर्यलोकसमीपेऽधस्तु रत्नप्रभाक्षुल्लकप्रतरसमीपेऽङ्गुलसहस्रभागविस्तरवती देशोनसार्धत्रयरज्जूच्छ्रिते बुद्ध्या गृहीत्वा त्रसनाडिकाया एवोत्तरपार्श्वे पूर्वोदितस्वरूपेणैव वैपरीत्येन सङ्घात्येते, एवं च कृते उपरितनं लोकस्या) द्वाभ्यामङ्गुलसहस्रभागाभ्यामधिकरज्जुत्रयविष्कम्भम् , इह चतुर्णा खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्रभागा भवन्ति, केवलमेकस्यां दिशि यौताभ्यां द्वाभ्यामप्येक एवाङ्गुलसहस्रभाग एकदिग्वर्तित्वादेवापराभ्यामपि द्वाभ्यामित्थमेवेत्यतस्तद्वयाधिकत्वमुक्तम् , देशोनसप्तरज्जूच्छ्रितम् , बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्चरज्जुबाहल्यमन्यत्र त्वनियतबाहल्यम् , इदं च सर्व गृहीत्वा आधस्त्यसंवर्तितलोकार्धस्योत्तरपाघे सङ्घात्यते / एवं च योजिते आधस्त्यखण्डस्योछूये यद् इतरोच्छ्याधिकं तत् खण्डयित्वोपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्ध्वायतं संयोज्यते, एवं च सातिरेकाः पञ्च रज्जवः क्वचिद् बाहल्यं सिध्यति / तथा आधस्त्यखण्डमधस्ताद् यथासम्भवं देशोनसप्तरज्जुबाहल्यं प्रागुक्तम् , अत उपरितनखण्डबाहल्याद् देशोनरज्जुद्वयमत्राधस्त्यखण्डेऽतिरिच्यते इत्यस्मादतिरिच्यमानबाहल्या देशोनरज्जुरूपं गृहीत्वोपरितनखण्डबाहल्ये सङ्घात्यते, एवं च कृते बाहल्यतस्तावत् सर्वमप्येतत् चतुरस्रीकृतनमःखण्डं कियत्यपि प्रदेशे रज्ज्वसङ्ख्येयभागाधिकाः षड् रजवो भवन्ति, व्यवहारतस्तु सर्व सप्तरज्जुबाहल्य 1 सटीकेयं गाथा सार्द्धशतकप्रकरणस्य 114 तमी गाथा-तट्टीकासमाना / - 2 मुद्रि० छा० °योजिताभ्यां द्वा //