SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 48 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः ततः पर्याप्तत्रीन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः 14 ततोऽपर्याप्तत्रीन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः 15 ततोऽपर्याप्तत्रीन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः 16 ततः पर्याप्तत्रीन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः 17 ततः पर्याप्तचतुरिन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः 18 ततोऽपर्याप्तचतुरिन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः 19 ततोऽपर्याप्तचतुरिन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः 20 ततः पर्याप्तचतुरिन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः 21 ततः पर्याप्तासंज्ञिपञ्चेन्द्रियस्य जघन्यः स्थितिबन्धः सङ्ख्यातगुणः 22 ततोऽपर्याप्तासंज्ञिपञ्चेन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः 23 ततोऽपर्याप्तासंज्ञिपञ्चेन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः 24 ततः पर्याप्तासंज्ञिपञ्चेन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः 25 // 50 // तो जइजिट्ठो बंधो, संखगुणो देसविरय हस्सियरो। सम्मचउ सन्निचउरो, ठिइबंधाणुकम संखगुणा // 51 // - ततो यतेः-संयतस्य ज्येष्ठो बन्धः सङ्ख्यातगुणः, ततो देशविरतस्य 'हस्वः' जघन्यः 'इतरः' उत्कृष्टः, ततः “सम्मचउ' त्ति सम्यग्दृष्टेश्चत्वारः स्थितिबन्धाः क्रमेण भवन्ति / तद्यथाअविरतसम्यग्दृष्टेः पर्याप्तस्य जघन्यस्तस्यैव चोत्कृष्टः स्थितिबन्ध इति द्वौ, एवमपर्याप्तस्यापि द्वौ, मिलिताश्चत्वार इति / “सन्निचउरु" त्ति संज्ञिनां संज्ञिपञ्चेन्द्रियाणां मिथ्यादृष्टीनामिति सामर्थ्याद् गम्यते चत्वारः स्थितिबन्धाः, तद्यथा-संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य जघन्योत्कृष्टभेदाद् द्वौ, एवमपर्याप्तस्यापि जघन्योत्कृष्टभेदाद् द्वौ एव स्थितिबन्धाविति सर्वे चत्वारः / एते प्रदर्शितरूपाः सर्वेऽपि स्थितिबन्धा यथा यावद्गुणा भवन्ति तदाह-"ठिइबंधाणुकम संखगुण" त्ति स्थितीनां बन्धाः स्थितिबन्धाः-प्रदर्शितरूपाः 'अनुक्रमेण' उत्तरोत्तरपरिपाट्या 'सङ्ख्यगुणाः' सङ्ख्येयगुणा भवन्तीत्यक्षरार्थः / भावार्थः पुनरयम्-पर्याप्तासंज्ञिपञ्चेन्द्रियोत्कृष्टस्थितिबन्धाद यतेरुत्कृष्टः स्थितिबन्धः सङ्ख्येयगुणः 26 ततो देशविरतस्य जघन्यः स्थितिबन्धः सद्ध्येयगुणः 27 ततो देशविरतस्योत्कृष्टः स्थितिबन्धः सङ्ख्येयगुणः 28 ततोऽविरतापर्याप्तस्य जघन्य स्थितिबन्धः सहयेयगुणः 29 ततः पर्याप्ताविरतस्य जघन्यः स्थितिबन्धः सङ्ख्येयगुणः 30 ततोऽपर्याप्ताविरतस्य उत्कृष्टः स्थितिबन्धः सङ्ख्येयगुणः 31 ततः पर्याप्ताविरतस्य उत्कृष्ट स्थितिबन्धः सङ्घयेयगुणः 32 ततोऽपर्याप्तसंज्ञिपञ्चेन्द्रियस्य जघन्यः स्थितिबन्धः सद्ध्येयगुण 33 ततः पर्याप्तसंज्ञिपञ्चेन्द्रियस्य जघन्यः स्थितिबन्धः सङ्ख्येयगुणः 34 ततः संज्ञिपञ्चेन्द्रिया पर्याप्तस्योत्कृष्टः स्थितिबन्धः सङ्ख्येयगुणः 35 ततः पर्याप्तसंज्ञिपञ्चेन्द्रियस्योत्कृष्टः स्थिति बन्धः सद्ध्येयगुणः 36 // अथैतद्गाथात्रयोक्ताल्पबहुत्वपदानां सुखावबोधार्थ विनेयजनानुग्रहा यन्त्रकमुपदय॑ते, तच्चेदम्
SR No.004335
Book TitlePancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherJain Atmanand Sabha
Publication Year1997
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy