________________ 24 देवेन्द्रसूरिविरचितखोपनटीकोपेतः [गाथा रकूर्मरथवरस्थालांशुकाष्टापदानुशसुप्रतिष्ठकमयूरश्रीदामाभिषेकतोरणमेदिनीजलधिवरभवनादर्शपर्वतगजवृषभसिंहचामररूपप्रशस्तोत्तमद्वात्रिंशल्लक्षणधराः खभावत एव सुरभिवदनाः प्रतनुक्रोधमानमायालोमाः सन्तोषिणो निरौत्सुक्या मार्दवार्जवसम्पन्नाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादौ ममत्वकारणे ममत्वाभिनिवेशरहिताः सर्वथाऽपगतवैरानुबन्धा हस्त्यश्वकरभगोमहिपादिसद्भावेऽपि तत्परिभोगपराङ्मुखाः पादविहारिणो ज्वरादिरोगयक्षभूतपिशाचादिग्रहमारिव्य. सनोपनिपातविकलाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमिन्द्राः। तेषां पृष्ठकरण्डकानि चतुःषष्टिसझ्याकानि, चतुर्थातिक्रमे चाहारग्रहणम् , आहारोऽपि च न शाल्यादिधान्यनिष्पन्नः किन्तु पृथिवीमृत्तिका कल्पद्रुमाणां पुष्पफलानि च / तथाहि-जायन्ते खलु तत्रापि विससात एवं शालिगोधूममुद्गमाषादीनि धान्यानि परं न तानि मनुष्याणामुपभोगं गच्छन्ति, या तु पृथिवी सा शर्करातोऽप्यनन्तगुणमाधुर्या, यश्च कल्पद्रुमफलानामाखादः स चक्रवर्तिभोजनादप्यधिकगुणः / यदुक्तम् 'तेसिं णं भंते ! पुप्फफलाणं केरिसए आसाए पन्नते ? गोयमा ! से जहानामए रणो चाउरतचक्कवट्टिस्स कल्लाणे भोयणजाए सयसहस्सनिप्फन्ने वन्नोववेए गंधोववेए रसोववेए फासोववेए आसायणिज्जे विस्सायणिजे दप्पणिजे मयणिजे विहणिज्जे सबिंदियगायपल्हायणिज्जे आसाएणं पन्नते, इत्तो इट्टतराए चेव पन्नते / (जम्बू० पत्र 118-1) ततः पृथिवी कल्पपादपपुष्पफलानि च तेषामाहारः / तथाभूतं चाहारमाहार्य प्रासादादिसंस्थाना ये गृहाकाराः कल्पद्रुमास्तेषु यथासुखमवतिष्ठन्ते / न च तत्र क्षेत्रे दंशमशकयूकामस्कुणमक्षिकादयः शरीरोपद्रवकारिणो जन्तव उपजायन्ते / येऽपि जायन्ते भुजगव्याघ्रसिंहादयस्तेऽपि मनुष्याणां न बाधायै प्रभवन्ति, नापि ते परस्परं हिंस्यहिंसकभावे वर्तन्ते, क्षेत्रानुभावतो रौद्रभावरहितत्वात् / मनुष्ययुगलानि च पर्यवसानसमये युगलं प्रसुवते, तत् पुनर्युगलमेकोनाशीतिदिनानि पालयन्ति / तेषां शरीरोच्छ्योऽष्टौ धनुःशतानि, पल्योपमासङ्ख्येयभागप्रमाणमायुः, स्तोककषायतया स्तोकप्रेमानुबन्धतया च ते मृत्वा दिवमुपसर्पन्ति / मरणं च तेषां जृम्भिकाकाशक्षुतादिमात्रव्यापारपुरस्सरं भवति, न शरीरपीडारम्भपुरस्सरमिति / अत्र गाथा:-. हिमगिरिनिग्गयपुवावरदाढा विदिसि संठिया लवणे। . जोयणतिसए गंतुं, तिन्नि सए वित्थराऽऽयामा // वेइयवणसंडजुया, चउ अंतरदीव तेसि नामाई / एगोरुग 1 आभासिय 2, वेसाणियनाम 3 नंगूली 4 // 1 तेषां भगवन् ! पुष्यफलानां कीदृश आखादः प्रज्ञप्तः! गौतम / स यथानामकः राज्ञश्चातुरन्तचक्रवर्तिनः कल्याणं भोजनजातं शतसहस्रनिष्पन्नं वर्णोपपेतं गन्धोपपेतं रसोपपेतं स्पर्शोपपेतं आखादनीयं विखादनीय दर्पणीय मदनीयं बृहणीयं सर्वेन्द्रियगात्रप्रसादनीयमाखादेन प्रज्ञप्तम्, इत इष्टतरश्चैव प्रज्ञप्तः // 2 हिममि. रिनिर्गतपूर्वापरदाढा विदिशि संस्थिता लवणे / योजनत्रिशतं गला त्रीणि शतानि विस्तराऽऽयामाः॥ वेदिका. बनखण्डयुताश्चत्वार अन्तरद्वीपास्तेषां नामानि / एकोरुका आभासिकः 2 वैषाणिकनामा 3 नाहोलिः 4 //