________________ 83-86] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 213 सर्व एव 'सिद्धाः' निष्ठितनिःशेषकर्माणः 1 'निगोदजीवाः' समस्ता अपि सूक्ष्मबादरमेदभिन्ना अनन्तकायिकसत्त्वाः 2 'वनस्पतयः' प्रत्येकानन्ताः सर्वेऽपि वनस्पतिजीवाः 3 'कालः' इति सर्वोऽप्यतीतानागतवर्तमानकालसमयराशिः 4 'पुद्गलाः' समस्तपुद्गलराशेः परमाणवः 5 'सर्व' समस्तम् 'अलोकनभः' अलोकाकाशमिति उपलक्षणत्वात् सर्वोऽपि लोकालोकप्रदेशराशिः 6 इत्येतद्राशिषट्कप्रक्षेपानन्तरं यस्मिन् कृते यद् भवति तदाह-'पुनः' पुनरपि 'त्रिवर्गयित्वा' त्रीन् वारांखावतैव राशिना गुणयित्वा 'केवलद्विके' केवलज्ञानकेवलदर्शनयुगले क्षिप्ते सति // 85 // किम् ! इत्याह- ... खित्ते णंताणतं, हवेइ जिटुंतु ववहरइ मज्झं / ___इय सुहुमत्थवियारो, लिहिओ देविंदसूरीहिं // 86 // ‘क्षिप्ते' न्यस्ते सत्यनन्तानन्तकं भवति' जायते 'ज्येष्ठम्' उत्कृष्टम् 'तुः' पुनरर्थे व्यवहितसम्बन्धश्च / 'व्यवहरति' व्यवहारकारि 'मध्यं तु' मध्यमं पुनः / इयमत्र भावना-इह केवलज्ञानकेवलदर्शनशब्देन तत्पर्याया उच्यन्ते, ततः केवलज्ञानकेवलदर्शनयोः. पर्यायेष्वनन्तेषु क्षिप्तेषु सखिति द्रष्टव्यम् , नवरं ज्ञेयपर्यायाणामानन्त्याद् ज्ञानपर्यायाणामप्यानन्त्यं वेदितव्यम् , एवमनन्तानन्तं ज्येष्ठं भवति, सर्वस्यैव वस्तुजातस्यात्र संगृहीतत्वात् , अतः परं वस्तुसत्त्वस्यैव सङ्ग्याविषयस्याभावादित्यभिप्रायः / सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अनन्तकस्याष्टविधस्यैव तत्र प्रतिपादितत्वात् / तथा चोकमनुयोगद्वारेषु एवमुक्कोसयं अणंताणतयं नत्थि / तदत्र तत्त्वं केवलिनो विदन्ति / सूत्रे तु यत्र क्वचिदनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योकृष्टशब्दवाच्यमनन्तानन्तकं द्रष्टव्यम् / तदेवं व्याख्यातं सप्रपञ्चं सझ्यातकासङ्ख्यातकानन्तकादिखरूपम् , तन्निरूपणे च व्याख्याता "नमिय जिणं जियमग्गण" (गा० 1) इत्यादि मौलद्वारगाथा / सम्पति षडशीतिसङ्ख्यगाथाप्रमाणत्वेन यथार्थ षडशीतिकशास्त्रं समर्थयन्नाह"इय सुहुमत्थवियारो" इत्यादि / 'इति' पूर्वोक्तप्रकारेण सूक्ष्मः-मन्दमत्यगम्यो योऽर्थःशब्दाभिधेयं तस्य विचारः विचारणं 'लिखितः'-अक्षरविन्यासीकृतः पञ्चसङ्ग्रहादिशाम्य इति शेषः / कैः ! इत्याह-'देवेन्द्रसूरिभिः' करालकलिकालपातालतलावमज्जद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमजगच्चन्द्रसूरिक्रमकमलचञ्चरीकैरिति // 86 // // इति श्रीदेवेन्द्रसूरिविरचिता खोपज्ञषडशीतिकटीका समाप्ता // 1 एवमुत्कृष्टमनन्तानन्तकं नास्ति / N>> एतचिहान्तर्गतपाठो मुद्रितानुयोगद्वारेषु नोपलब्धः //