________________ 80-82] षडशीतिनामा चतुर्थः कर्मग्रन्थः / - उक्तः सूत्राभिप्रायः / साम्प्रतं मतान्तरगतमसङ्ख्यातानन्तकखरूपमाह-"अन्ने वग्गिय" इत्यादि / अन्ये आचार्याः-एके सूरय एवमाहुः, यथा—'चतुर्थकमसहयं' जघन्ययुक्तासङ्ख्यातक रूपं 'वर्गित तावतैव राशिना गुणितं सत् "एक्कसि" ति एकवारं 'भवति' जायते-सम्पद्यते असहयासज्ञयं 'लघु' जघन्यम् , जघन्यासायातासङ्ग्यातकं भवतीत्यर्थः / अत्रापि मते असङ्ख्यातकमुद्दिश्य मध्यमोत्कृष्टभेदप्ररूपणा पूर्वोक्तैवेति दर्शयन्नाह--"रूवजुयं तु तं मझं" ति रूपेणसर्षपलक्षणेन युतं रूपयुतं 'तुः' अवधारणे व्यवहितसम्बन्धश्च 'तद्' इति तदेवानन्तराभिहितं जघन्यासस्येयासक्येयादिकम् किं भवति ? इत्याह–'मध्यं' मध्यमासबधेयासङ्ख्येयादिकं भवति // 8 // रूवूणमाइमं गुरु, ति वग्गिउं तं इमं दस क्खेवे। . लोगागासपएसा, धम्माधम्मेगजियदेसा // 81 // तदेव जघन्यासङ्ख्येयासहथेयादिकं 'रूपोनम्' एकेन रूपेण रहितं सद् 'आदिम' तदपेक्षया आद्यस्य राशेः सम्बन्धि 'गुरु' उत्कृष्टं भवतीति / अयमत्राशयः-जघन्यासङ्ख्येयासङ्ख्येयकं रूपोनं सद् युक्तासङ्ग्यातकमुत्कृष्टकं भवति, जघन्यपरीतानन्तं रूपोनमसद्ध्येयासयेयकमुत्कृष्टं भवति, जघन्ययुक्तानन्तं तु रूपोनमुत्कृष्टं परीचानन्तं भवति, जघन्यानन्तानन्तकं तु रूपोनमुत्कृष्टं युक्तानन्तकं भवतीति / अधुना जघन्यपरीत्तानन्तकं मतान्तरेण प्ररूपयन्नाह-"ति वग्गिउं तं" इत्यादि / 'तद्' इति प्रागभिहितं जघन्यासङ्ख्येयासयेयकं 'त्रिवर्गयित्वा' सशद्विराशी परस्परं त्रीन् वारानभ्यस्येत्यर्थः / अयमत्राशयः-जघन्यासयेयासक्येयकराशेः सदृशद्विराशिगुणनलक्षणो वर्गो विधीयते, तस्यापि वर्गराशेः पुनर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनरपि वर्गों निष्पाद्यत इति / ततः किम् ! इत्याह-'इमान्' वक्ष्यमाणखरूपान् 'दश' इति दशसध्यान् क्षिप्यन्त इति कर्मणि पनि क्षेपाः-प्रक्षेपणीयराशयस्तान् 'क्षिपख' निधेहीत्युत्तरगाथायां सम्बन्धः / तथाहि-लोकाकाशस्य प्रदेशाः 1 धर्मश्च अधर्मश्च एकजीवश्च धर्माधर्मैकनीवास्तेषां देशाः-प्रदेशाः / अयमत्रार्थः-धर्मास्तिकायप्रदेशाः 2 अधर्मास्तिकायप्रदेशाः 3 एकजीवप्रदेशाः 4 // 81 // तथा ठिइबंधज्झवसाया, अणुभागा जोगछेयपलिभागा। दुण्ह य समाण समया, पत्तेयनिगोयए खिवसु // 82 // * स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि कषायोदयरूपाण्यध्यवसायशब्देनोच्यन्ते, तान्यसयेयान्येव / तथाहि-ज्ञानावरणस्य जघन्योऽन्तर्मुहूर्तप्रमाणः स्थितिबन्धः, उत्कृष्टतस्तु त्रिंशत्सागरोपमकोटाकोटीप्रमाणः, मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽसध्येयमेदः, एषां च स्थितिबन्धानां निर्वर्तकान्यध्यवसायस्थानानि प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि भिन्नान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्ख्येयानि स्थितिबन्धाध्यवसायस्थानानि लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यम् / “अणुभाग" ति 'अनुभागाः' ज्ञानावरणादिकर्मणां जघन्यमध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां निर्वतकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्त्यतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानाम् / "जोगछेयपलिभाग" ति योगः-मनोवाकाय