________________ 208 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा गुणने' द्वितीयतृतीयचतुर्थपञ्चमपदवाच्यराशेरन्योऽन्याभ्यासे सति 'क्रमात्' क्रमेण "सगासंख" त्ति प्राकृतत्वात् 'सप्तमासङ्ख्यातम्' स्थापनापेक्षया | जघन्यसंख्यातकम् 1 | मध्यमसंख्यातकम् 2 / उत्कृष्टसंख्यातकम् 3 / | परीसासं० जघ.. |परीत्तासं० मध्य.. परीत्तासं० उत्कृ.३ | | युक्तासं० जघन्यम् 4 / युकास. मध्य०५ युकासं० उत्कृ.६ / असं. असं. जघ०७| असं. असं० मध्य०८ असं. असं० उत्कृ.१ | परीत्तानन्तं जप.१ | परीत्तानन्तं मध्य. 2 | परीत्तानन्तं उत्कृ०३ | युक्तानन्तं. जप. 4 | युक्तानन्तं मध्य. 5 ।युक्तानन्तं उत्कृ. 6 अनन्तानन्तं जघ. | अनन्तानन्तं मध्य.८ अनन्तानन्तं उत्कृ. 9 जघन्यासङ्ख्यातासङ्ख्यातकम् / “पढमचउसत्त गंत" ति प्राकृतत्वात् प्रथमचतुर्थसप्तमान्यनन्तकानि / तत्र प्रथमानन्तकं-जघन्यपरीतानन्तकम् चतुर्थानन्तकम्-जघन्ययुक्तानन्तकम् सप्तमानन्तकं-जघन्यानन्तानन्तकं भवतीति / इह जघन्यमध्यमोत्कृष्टभेदतोऽसद्धयेयकानन्तकयोः प्रत्येकं नवविधत्वात् प्रदर्शितभेदानां सप्तमप्रथमादिसञ्जयानं सङ्गच्छत एव / इदमत्रैदम्पर्यम्द्वितीये युक्तासङ्ख्यातकपदवाच्ये जघन्ययुक्तासङ्ख्यातकलक्षणे राशौ विवृते सति यावन्ति रूपाणि तावत्सु प्रत्येकं जघन्ययुक्तासङ्ख्यातकमाना राशयोऽभ्यसनीयाः, ततस्तेषां राशीनां परस्परताडने यो राशिर्भवति तत् सप्तमासयेयकं मन्तव्यम् / तृतीये त्वसङ्ख्येयकासङ्घयेयकपदवाच्ये जघन्यासङ्घयेयकासङ्ख्येयकरूपे राशौ यावन्ति रूपाणि तावतामेव जघन्यासद्धयेयकासङ्ख्येयकराशीनामन्योऽन्यगुणने सति यो राशिः सम्पद्यते तत् प्रथमानन्तकं जघन्यपरीचानन्तकमवसेयम् / चतुर्थे तु परीचानन्तकपदवाच्ये जघन्यपरीत्तानन्तकरूपे राशौ यावन्ति रूपाणि तावत्सङ्ख्यानां जघन्यपरीत्तानन्तकराशीनां परस्परमभ्यासे यावान् राशिर्भवति तत् चतुर्थमनन्तकं जघन्ययुक्तानन्तकं भवति / पञ्चमे तु युक्तानन्तकपदवाच्ये जघन्ययुक्तानन्तकरूपे राशौ यावन्ति रूपाणि तत्प्रमाणानामेव जघन्ययुक्तानन्तकराशीनां परस्परगुणने यावान् राशिः सम्पद्यते तत् सप्तमानन्तकं जघन्यानन्तानन्तकं भवति / आह परीचासङ्ख्यातकयुक्तासङ्ख्यातकासङ्ख्यातासङ्ख्यातकपरीत्तानन्तकयुक्तानन्तकानन्तानन्तकलक्षणाः षडपि राशयो जघन्यास्तावन्निर्दिष्टाः, मध्यमा उत्कृष्टाश्चैते कथं मन्तव्याः! इत्याह---"ते रूवजुया" इत्यादि / 'ते' अनन्तरोद्दिष्टा जघन्याः षडपि राशयो रूपेण-एककलक्षणेन युताः-समन्विता रूपयुताः सन्तः किं भवन्ति ? इत्याह-'मध्याः' मध्यमा अजघन्योत्कृष्टा इति यावत् / तत्र यः प्रामिर्दिष्टो जघन्यपरीचासङ्ख्यातकराशिः स एंकसिन् रूपे प्रक्षिप्ते मध्यमो भवति, उपलक्षणं चैतत् , नैकरूपप्रक्षेप एव मध्यमभणनं किन्त्वेकैकरूपनिक्षेपेऽयं तावद् मध्यमो मन्तव्यो यावद् उत्कृष्टपरीचासङ्घयेयकराशिन भवतीति / एवमनया दिशा जघन्ययुक्कासख्यातकादयोऽपि राशय एकैकसिन् रूपे निक्षिप्वे मध्यमाः सम्पद्यन्ते, तदनु चैकैकरूपवृद्ध्या तावद् मध्यमा अवसेया यावत् खं खमुत्कृष्टपदं नासादयन्तीति / तāते षडपि किंखरूपाः सन्त उत्कृष्टा भवन्ति ! इत्याह-"रूवूण गुरु पच्छ” चि रूपेण-एककलक्षणेन ऊनाः-न्यूना रूपोनाः सन्तस्त एव प्रागभिहिता जघन्या राशयः, तेशब्द आवृत्त्येहापि सम्बन्धनीयः, किं भवन्ति !