SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ 77j षडशीतिनामा चतुर्थः कर्मग्रन्थः / 205 प्रथमम्-आयं यत् त्रिपल्यं-पल्यत्रयमनवस्थितशलाकाप्रतिशलाकाख्यं तेनोद्धृताः-एकैकसर्षपप्रक्षेपेण व्याप्ताः प्रथमत्रिपल्योद्धृताः, क एते ! इत्याह-द्वीपोदधयो न केवलं द्वीपोदधयः पल्यचतुष्कसर्षपाश्च, किं भवति? इत्याह-'सर्वोऽपि' समस्तोऽपि 'एषः' अनन्तरोक्तः सर्षपव्यासद्वीपसमुद्रपल्यचतुष्कगतसर्षपलक्षणः 'राशिः' सङ्घातः 'रूपोनः' एकेन सर्षपरूपेण रहितः सन् 'परमसत्येयम्' उत्कृष्टसङ्ख्यातकं भवतीति / तदेवं तावदिदमुत्कृष्टं सयेयकम् / जघन्य तु द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तानि सर्वाणि मध्यमं सत्येयकमिति सामर्थ्यादुक्तं भवति / सिद्धान्ते च यत्र कचित् सङ्ख्यातग्रहणं करोति तत्र सर्वत्रापि मध्यम सहधेयकं द्रष्टव्यम् / यदुक्तमनुयोगद्वारचूर्णी सिद्धते य जत्थ जत्थ संखिज्जगगहणं कतं तत्थ तत्थ सवं अजहन्नमणुक्कोसयं दट्ठवं (पत्र 81) इति / इदं चोत्कृष्टं सङ्ख्येयकमित्थमेव प्ररूपयितुं शक्यते, द्विकादिदशशतसहस्रलक्षकोट्यादिशीर्षप्रहेलिकान्तराशिभ्योऽतिबहुना समतिक्रान्तत्वेन प्रकारान्तरेणाख्यातुमशक्यत्वात् / यदाहुः प्रसिद्धसिद्धान्तसन्दोहविवरणप्रकरणकरणप्रमाण(ग्रन्थ)प्रथनावाप्तसुधांशुधामधवलयशःप्रसरधवलितसकलवसुन्धरावलयाः श्रीहरिभद्रसूरिपादा अनुयोगद्वारटीकायाम् जंबूद्दीवप्पमाणमेचा चचारि पल्ला-पढमो अणवट्ठियपल्लो, बिइओ सलागापल्लो, तईओ पडिसलागापल्लो, चउत्थओ महासलागापल्लो / एए चउरो वि रयणप्पहपुढवीए पढम रयणकंडं जोयणसहस्सावगाहं मितूण बिइए वयरकंडे पइट्टिया। इमा ठवणा-UUUU। एए ठविया। एगो गणणं न उवेइ, दुप्पभिई संख ति काउं / तत्थ पढमे अणवट्ठियपल्ले दो सरिसवा पक्खित्ता एवं जहन्नगं सखिज्जगं। ततो एगुत्तरवुड्डीए तिन्नि चउरो पंच जाव सो पुन्नो अन्नं सरिसवं न पडिच्छइ ति ताहे असब्भावट्ठवणं पडुच्च वुच्चति-तं को वि देवो दाणवो वा उक्खित्तुं वामकरयले काउं ते सरिसवे जंबूद्दीवाइए एगं दीवे एगं समुद्दे पक्खिविजा जाव निट्ठिया, ताहे सलागापल्ले एगो सरिसवो छूढो / जत्थ निढिओ तेण सह आरिल्लएहिं दीवसमुद्देहिं पुणो अन्नो पल्लो आइज्जइ, सो वि सरिसवाणं भरिओ, तओ परओ एकेकं दीवसमुद्देसु पक्खिवंतेणं निहाविओ, तओ सलागापल्ले बिइया सलागा पक्खित्ता / एवं एएणं अणवट्ठियपल्लकरणक्कमेण सलायग्गहणं १सिद्धान्ते च यत्र यत्र सञ्जयातकप्रहणं कृतं तत्र तत्र सर्वमजघन्यमनुत्कृष्टं द्रष्टव्यम् // २जम्बूद्वीपप्रमाणमात्राश्वलारः पल्याः-प्रथमोऽनवस्थितपल्यः, द्वितीयः शलाकापल्यः, तृतीयः प्रतिशलाकापल्यः, चतुर्थको महाशलाकापल्यः / एते चखारोऽपि रत्नप्रभापृथ्व्याः प्रथमं रनकाण्डं योजनसहस्रावगाहं मित्त्वा द्वितीयस्मिन् वज्रकाण्डे प्रतिष्ठिताः / एषा स्थापना 0000 / एते स्थापिताः / एको गणना नोपैति, द्विप्रभृति सङ्ख्येति कृला / तत्र प्रथमेऽनवस्थितपल्यै द्वौ सर्षपौ प्रक्षिप्तौ एतजघन्यकं सङ्ख्यातकम् / तत एकोत्तरवृध्या त्रयश्चत्वारः पञ्च यावत् स पूर्णोऽन्यं सर्षपं न प्रतीच्छति इति तदा असद्भावस्थापना प्रतीत्योच्यते-तं कोऽपि देवो दानवो वोत्क्षिप्य वामकरतले कुंला तान् सर्षपान् जम्बूद्वीपादिके एक द्वीपे एक समुद्र प्रक्षिपेद्यावनिष्ठिताः, तदा शलाकापल्ये एकः सर्षपो क्षिप्तः। यत्र निष्ठितस्तेन सह आरातीयद्वीपसमुद्रःपुनरन्यः पल्यः आदीयते, सोऽपि सर्षपैर्मृतः, ततः परत एकैकं द्वीपसमुद्रेषु प्रक्षिपता निष्ठापितः, ततः शलाकापल्ये द्वितीया शलाका प्रक्षिप्ता.। एवमेतेनानवस्थितपल्यकरणक्रमेण शलाकामहणं कुर्वता शलाकापल्यः शलाकामि
SR No.004334
Book TitleChatvar Karmgranth
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherJain Atmanand Sabha
Publication Year1997
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy