________________ 201 72-73 ] पडशीतिनामा चतुर्थः कर्मग्रन्थः / परिही तिलक्ख सोलस, सहस्स दो य सय सत्तवीसहिया / / कोसतिय अट्ठवीसं, धणुसय तेरंगुलद्धहियं // (बृह० क्षे० गा० 6) इतिगाथाभिहितप्रमाणोपेताः / उक्तं च श्रीमदनुयोगद्वारसूत्रे जेहन्नयं संखिजयं 'कित्तिल्लियं होइ ? दो रूवाइं / तेण परं अजहन्नमणुकोसयाइं ठाणाइं जाव उक्कोसयसंखिज्जयं न पावइ / उक्कोसयं संखिजयं "कित्तियं होइ ? उक्कोसयस्स संखिज्जयस्स परूवणं करिस्सामि-से जहानामए पल्ले सिया एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस सहस्साइं दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेणं // (पत्र 235-1) ततो जम्बूद्वीपप्रमाणचतुःपल्यप्ररूपणयेदमुत्कृष्टं सङ्ख्यातकं प्ररूपयिष्यत इति भावः // 72 // अथैते चत्वारोऽपि पल्याः किंनामानः ? इत्येतदाह पल्लाऽणवट्टियसलागपडिसलागमहासलागक्खा / जोयणसहसोगाढा, सवेइयंता ससिहभरिया // 73 // धान्यपत्य इव पल्याः कल्प्यन्ते, ते च जम्बूद्वीपप्रमाणाः / किंनामानः ? इत्याह-"अणवट्ठिय" इत्यादि / यथोत्तरं वर्धमानखभावतयाऽवस्थितरूपाभावाद् अनवस्थित एवोच्यते / तथेह शलाकाः-एकैकसर्षपप्रक्षेपलक्षणास्ताभिः शलाकाभिर्नीियमाणत्वात् पल्योऽपि शलाका / तथा प्रतिशलाकाभिर्निष्पन्नत्वात् प्रतिशलाका / महाशलाकाभिर्निवृत्तत्वात महाशलाका / तत एषां द्वन्द्वेऽनवस्थितशलाकाप्रतिशलाकामहाशलाकास्ता इत्थम्भूता आख्याः-संज्ञा येषां तेऽनवस्थितशलाकाप्रतिशलाकामहाशलाकाख्याः / त एव विशिष्यन्ते-योजनसहस्रं तु अवगाढाः / इदमुक्तं भवति-रत्नप्रभायाः पृथिव्याः प्रथमं योजनसहस्रप्रमाणं रत्नकाण्डं भित्त्वा द्वितीये वज्रकाण्डे प्रतिष्ठिता इति / पुनस्त एव विशिष्यन्ते-“सवेइयंत" ति वज्रमय्या अष्टयोजनोच्छायायाश्चत्वार्यष्टौ द्वादश योजनान्युपरिमध्याधोविस्तृताया जम्बूद्वीपनगरप्राकारकल्पाया जगत्या द्विगव्यूतोच्छ्रितेन पञ्चधनुःशतविस्तृतेन नानारत्नमयेन जालकटकेन परिक्षिप्ता या उपरि वेदिकेति पद्मवरवेदिकेत्यर्थः, द्विगव्यूतोच्छ्रिता पञ्चधनुःशतविस्तीर्णा गवाक्षहेमकिङ्किणीजालघण्टायुक्ता देवानामासनशयनमोहनविविधक्रीडास्थानमुभयतो वनखण्डवती तस्या अन्तः-पर्यवसानमग्रभाग इति यावद् वेदिकान्तः, ततश्च सह वेदिकान्तेन वर्तन्त इति सवेदिकान्ताः / ते च कथं सर्षपै ताःइत्याह- "ससिहभरिय" ति सह शिखया-उच्छ्यलक्षणया वर्तन्त इति सशिखाः, ततः सशिखं यथा भवति तथा सर्षपैर्मृताः-पूरिताः सशिखभृताः कर्तव्या इति शेषः / अयमत्रा 1 परिधिस्त्रयो लक्षाः षोडश सहस्राणि द्वे च शते सप्तविंशत्यधिके / कोशत्रिक अष्टाविंशं धनुःशतं त्रयोदशाडलान्य‘धिकानि // 2 जघन्यं सङ्ख्यातकं कियद् भवति? द्वे रूपे / ततः परमजघन्योत्कृष्टानि स्थानानि यावद् उत्कृष्टसायातकं न प्राप्नोति / उत्कृष्टं सङ्ख्यातकं कियद् भवति ? उत्कृष्टस्य सङ्ख्यातकस्य प्ररूपणा करिष्ये-असौ यथानामकः पल्यः स्यात् एकं योजनशतसहस्रम् आयामविष्कम्भाभ्याम् , त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे च सप्तविंशे योजनशते त्रयश्च क्रोशा अष्टाविंशं च धनुःशतं त्रयोदशाकुलानि अर्धाकलं च किञ्चिदू विशेषाधिक परिक्षेपेण // 3-4 केवइयं अनुयोगद्वारसूत्रे // .. क. 26