________________ 67-69) षडशीतिनामा चतुर्थः कर्मग्रन्थः / 193 अमुना पूर्वदर्शितप्रकारेण गत्यादिषु संयोगषट्कचिन्तनलक्षणेन परस्परविरोधाभावेन सम्भविनः पञ्चदश सान्निपातिकभेदाः षष्ठभावविकल्पाः प्ररूपिता इति शेषः / “वीसं असंभविणो" ति विंशतिसङ्ख्याः संयोगा असम्भविनः, प्ररूपणामात्रभावित्वेन न जीवेषु तेषां सम्भवोऽस्तीति / ननु षड्रिंशतिभेदाः प्राक् प्रदर्शिताः, इह तु पञ्चदशानां विंशतेश्च मीलने पञ्चत्रिंशत्सझ्या भेदाः प्राप्नुवन्तीति कथं न विरोधः, अत्रोच्यते-ननु विस्मरणशीलो देवानांप्रियः, यतोऽनन्तरमेवोदितं गत्यादिद्वारेणैव ते चिन्त्यमानाः पञ्चदश भवन्ति, मौला यादिसंयोगास्तु पडेव / तथाहि-एको द्विकसंयोगः, द्वौ द्वौ त्रिकचतुष्कसंयोगौ, एकः पञ्चकसंयोग इति षण्णां विंशत्या मीलने षड्दिशतिसक्ष्यैवोपजायत इति नात्र कश्चन विरोध इति // 68 // * अभिहिताः सप्रमेदा जीवानामौपशमिकादयो भावाः। साम्प्रतमेतानेव कर्मविषये चिन्तयन्नाह मोहेव समो मीसो, चउघाइसु अट्टकम्मसु य सेसा। धम्माइ पारिणामियभावे खंधा उदइए वि // 69 // 'मोहे एव' षष्ठीसप्तम्योरथ प्रत्यभेदाद्, यथा वृक्षे शाखा वृक्षस्य शाखा, मोहनीयस्यैव कर्मणः 'शमः' उपशमोऽनुदयावस्था भसच्छन्नामेरिव न तु समस्तानां कर्मणाम् / “मीसो चउघाइसु" ति 'मिश्रः क्षयोपशमः, तत्र क्षयः-उदयावस्थस्यात्यन्ताभावस्तेन सहोपशमः-अनुदयावस्था दरविध्यातवहिवत् क्षयोपशमः, 'चतुषु चतुःसङ्ख्येषु 'घातिषु' ज्ञानादिगुणघातकेषु कर्मखित्युत्तरोक्तमत्रापि सम्बन्धनीयम्, ततो ज्ञानावरणदर्शनावरणमोहनीयान्तरायलक्षणानां घातिकर्मणामेव क्षयोपशमो भवति न स्वघातिकर्मणामिति / 'अष्टकर्मसु' ज्ञानावरणाद्यन्तरायावसानेषु 'चः' पुनरर्थे अष्टकर्मसु पुनः 'शेषाः' औदयिकक्षायिकपारिणामिकभावा भवन्ति / तत्रोदयः-विपाकानुभवनम् , क्षयः-अत्यन्ताभावः, परिणामः तेन तेन रूपेण परिणमनमित्यक्षरार्थः / भावार्थस्त्वयम्मोहनीयकर्मणः पञ्चापि आवाः प्राप्यन्ते / मोहनीयवर्जितज्ञानावरणदर्शनावरणान्तरायलक्षणानां तु त्रयाणां घातिकर्मणामुदयक्षयक्षयोपशमपरिणामखभावाश्चत्वार एव भावा भवन्ति न पुनरुपशमः। शेषाणां वेदनीयायुर्नामगोत्रखरूपाणां चतुर्णामप्यघातिकर्मणामुदयक्षयपरिणामलक्षणास्त्रय एव भावा भवन्ति, न तु क्षयोपशमोपशमाविति / __ प्रतिपादिता जीवेषु तदाश्रितकर्मसु च पश्चापि भावाः / अधुना तान् अजीवेषु बिभणिषुराह-"धम्माइ" इत्यादि / इह पदैकदेशे पदसमुदायोपचाराद् धर्मास्तिकायः 1 अधर्मास्तिकायः 2 आकाशास्तिकायः 3 पुद्गलास्तिकायः 4 कालद्रव्यं 5 चेति परिग्रहः / तत्र धारयतिगतिपरिणतजीवपुद्गलान् तत्वभावतायामवस्थापयतीति धर्मः, अस्तयश्चेह प्रदेशास्तेषां चीयत इति कायः-सङ्घातोऽस्तिकायः, ततो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः / तथा न धारयतिगतिपरिणतानपि जीवपुद्गलान् तत्वभावतायां नावस्थापयति स्थित्युपष्टम्मकत्वात् तस्येत्यधर्मः शेषं प्राग्वत् / आ-समन्तात् काशते-अवगाहदानतया प्रतिभासत इत्याकाशः, शेषं प्राग्वत् / पूरणगलनधर्माणः पुद्गलाः, पृषोदरादित्वाद् इष्टरूपसिद्धिः, शेषं पूर्ववत् / तथा “कलण् सख्याने" कलनं कालः, कल्यते वा-परिच्छिद्यते वस्त्वनेनेति कालः, कलानां वा-समयादिरूपाणां समूहः कालः / आह सामूहिके प्रत्यये नपुंसकलिङ्गेन भवितव्यम्, यथा कापोतं मायूरं चेति, [तन्न,] क. 25