________________ 60-64] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 189 स्तूदीरणा पूर्वोक्तकारणादेव न भवति / "णुदीरगु अजोगि" ति अयोगिकेवली न कस्यापि कर्मण उदीरकः, योगसव्यपेक्षत्वाद् उदीरणायाः, तस्य च योगाभावादिति // उक्ता गुणस्थानकेषूदीरणास्थानयोजना / सम्प्रति गुणस्थानकेष्वेव वर्तमानानां जन्तूनामल्पखबहुत्वमाह-"थैव उवसंत" ति स्तोकाः 'उपशान्ताः' उपशान्तमोहगुणस्थानवर्तिनो जीवाः, यतस्ते प्रतिपद्यमानका उत्कर्षतोऽपि चतुःपञ्चाशत्प्रमाणा एव प्राप्यन्त इति / तेभ्यः सकाशात् क्षीणमोहाः सङ्ख्येयगुणाः, यतस्ते प्रतिपद्यमानका एकस्मिन् समयेऽष्टोत्तरशतप्रमाणा अपि लभ्यन्ते / एतच्चोत्कृष्टपदापेक्षयोक्तम् अन्यथा कदाचिद् विपर्ययोऽपि द्रष्टव्यः-स्तोकाः क्षीणमोहाः, बहवस्तु तेभ्य उपशान्तमोहाः / तथा तेभ्यः क्षीणमोहेभ्यः सकाशात् सूक्ष्मसम्परायानिवृत्तिबादरापूर्वकरणा विशेषाधिकाः / स्वस्थाने पुनरेते चिन्त्यमानास्त्रयोऽपि 'समाः' तुल्या इति // 62 // जोगिं अपमत्त इयरे, संखगुणा देससासणामीसा। अविरय अजोगिमिच्छा, असंख चउरो दुवे गंता // 63 // तेभ्यः सूक्ष्मादिभ्यः सयोगिकेवलिनः सङ्ख्यातगुणाः, तेषां कोटीपृथक्त्वेन लभ्यमानत्वात् / तेभ्योऽप्रमत्ताः सङ्घयेयगुणाः, कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात् / तेभ्यः "इयरे" ति अप्रमत्तप्रतियोगिनः प्रमत्ताः सङ्ख्येयगुणाः / प्रमादभावो हि बहूनां बहुकालं च लभ्यते विपर्ययेण त्वप्रमाद इति न यथोक्तसङ्ख्याव्याघातः / “देस" इत्यादि देशविरतसाखादनमिश्राविरतलक्षणाश्चत्वारो यथोत्तरमसङ्ख्येयगुणाः / अयोगिमिथ्यादृष्टिलक्षणौ च द्वौ यथोत्तरमनन्तगुणौ / तत्र प्रमत्तेभ्यो देशविरता असङ्घयेयगुणाः, तिरश्चामप्यसङ्ख्यातानां देशविरतिभावात् / साखादनास्तु कदाचित् सर्वथैव न भवन्ति, यदा भवन्ति तदा जघन्येनैको द्वौ वा, उत्कर्षतस्तु देशविरतेभ्योऽप्यसङ्ख्येयगुणाः / तेभ्योऽपि मिश्रा असङ्ख्येयगुणाः, साखादनाद्धाया उत्कर्षतोऽपि षडावलिकामात्रतया स्तोकत्वात् , मिश्राद्धायाः पुनरन्तर्मुहूर्तप्रमाणतया प्रभूतत्वात् / तेभ्योऽप्यसायेयगुणा अविरतसम्यग्दृष्टयः, तेषां गतिचतुष्टयेऽपि प्रभूततया सर्वकालसम्भवात् / तेभ्योऽप्ययोगिकेवलिनो भवस्थाभवस्थभेदभिन्ना अनन्तगुणाः, सिद्धानामनन्तत्वात् / तेभ्योऽप्यनन्तगुणा मिथ्यादृष्टयः, साधारणवनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् तेषां च मिथ्यादृष्टित्वादिति // 63 // - तदेवमभिहितं गुणस्थानवर्तिनां जीवानामल्पबहुत्वम् / इदानीं "नमिय जिणं जियमग्गण" (गा० 1) इत्यादि द्वारगाथासूचितं भावद्वारं व्याचिख्यासुराह___ उवसमखयमीसोदयपरिणामा दु नव ठार इगवीसा / 'तियभेय सन्निवाइय सम्मं चरणं पढम भावे // 64 // ___ इह किल षड् भावा भवन्ति / विशिष्टहेतुभिः खतो वा जीवानां तत्तद्रूपतया भवनानि भवन्त्येभिरुपशमादिभिः पर्यायैरिति वा भावाः / किनामानः पुनस्ते ? इत्याह-"उवसमखयमीसोदय" इत्यादि / अत्र सूचकत्वात् सूत्रस्यैवं प्रयोगः, "उवसम" त्ति औपशमिको भावः, "खय" ति क्षायिको भावः, “मीस" त्ति क्षायोपशमिको भावः, “उदय' ति औदयिको भावः, “परिणाम" ति पारिणामिको भावः / तत्रोपशमनमुपशमः-विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य विष्कम्भणं स एव तेन वा निवृत्त औपशमिकः / क्षयः-कर्मणोऽत्यन्तोच्छेदः