________________ 56-59) षडशीतिनामा चतुर्थः कर्मग्रन्थः / 187 भवन्ति / 'अपूर्वे' अपूर्वकरणे पुनः सैव चतुर्विशतिक्रियाहारकरहिता द्वाविंशतिर्बन्धहेतवो भवन्तीति // 57 // अछहास सोल बायरि, सुहुमे दस वेयसंजलणति विणा / खीणुवसंति अलोभा, सजोगि पुवुत्त सग जोगा // 58 // एते च पूर्वोक्ता द्वाविंशतिबन्धहेतवः 'अछहासाः' हास्यरत्यरतिशोकमयजुगुप्सालक्षणहास्यषट्करहिताः षोडश बन्धहेतवः “वायरि" ति अनिवृत्तिबादरसम्परायगुणस्थानके भवन्ति, हास्यादिषद्कस्यापूर्वकरणगुणस्थानक एव व्यवच्छिन्नत्वादिति भावः / तथा त एव षोडश त्रिकशब्दस्य प्रत्येकं सम्बन्धाद् वेदत्रिकं-स्त्रीपुंनपुंसकलक्षणं सज्वलनत्रिकं-सज्वलनक्रोधमानमायारूपं तेन विना दश वन्धहेतवः सूक्ष्मसम्पराये भवन्ति, वेदत्रयस्य सज्वलनक्रोधमानमायात्रिकस्य चानिवृत्तिबादरसम्परायगुणस्थानक एव व्यवच्छिन्नत्वात् / त एव दश 'अलोभाः' लोभरहिताः सन्तो नव बन्धहेतवः क्षीणमोहे उपशान्तमोहे च भवन्ति, मनोयोगचतुष्कवाग्योगचतुष्कौदारिककाययोगलक्षणा नव बन्धहेतव उपशान्तमोहे क्षीणमोहे च प्राप्यन्ते, न तु लोभः, तस्य सूक्ष्मसम्पराय एवं व्यवच्छिन्नत्वात् / सयोगिकेवलिनि पूर्वोक्ताः सप्त योगाः, तथाहि-औदारिकमौदारिकमिश्रं कार्मणं प्रथमान्तिमौ मनोयोगौ प्रथमान्तिमौ वाम्योगी चेति / तत्रौदारिक सयोग्यवस्थायाम् औदारिकमिश्रकार्मणकाययोगी समुद्धातावस्थायामेव वेदितव्यौ / मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु // (प्रशम० का० 276) कार्मणशरीरयोगी, चतुर्थके पञ्चमे तृतीये च / (प्रशम० का० 277) इति / प्रथमान्तिममनोयोगौ भगवतोऽनुत्तरसुरादिभिर्मनसा पृष्टस्य मनसैव देशनात् , प्रथमान्तिमवाग्योगौ तु देशनादिकाले / अयोगिकेवलिनि न कश्चिद् बन्धहेतुः, योगस्यापि व्यवच्छिन्नत्वात् // 58 // उक्ता गुणस्थानकेषु बन्धहेतवः / सम्प्रति गुणस्थानकेष्वेव बन्धं निरूपयन्नाह___ अपमत्तंता सत्तह मीसअप्पुव्ववायरा सत्त। बंधइ छ स्सुहुमो एगमुवरिमाऽयंधगाऽजोगी॥५९॥ मिथ्यादृष्टिप्रभृतयोऽप्रमत्तान्ताः सप्ताष्टौ वा कर्माणि बध्नन्ति, आयुर्वन्धकालेऽष्टौ शेषकालं तु सप्त / “मीसअप्पुबबायरा" इति मिश्रापूर्वकरणानिवृत्तिबादराः सप्तैव बन्नन्ति, तेषामायुर्वन्धाभावात् / तत्र मिश्रस्य तथाखाभाव्याद् इतरयोः पुनरतिविशुद्धत्वाद् आयुर्वन्धस्य च घोलनापरिणामनिबन्धनत्वात् / “छ स्सुहुमु" ति सूक्ष्मसम्परायो मोहनीयायुर्वर्जानि षट् कर्माणि बध्नाति, मोहनीयबन्धस्य बादरकषायोदयनिमित्तत्वात् , तस्य च तदभावात् , आयुर्बन्धाभावस्त्वतिविशुद्धस्वादवसेयः / “एगमुवरिम" ति 'एक' सातदेवनीयं कर्म 'उपरितनाः' सूक्ष्मसम्परायाद् उपरिष्टाद्वर्तिन उपशान्तमोहक्षीणमोहसयोगिकेवलिनो बध्नन्ति, न शेषकर्माणि, तद्वन्धहेतुत्वाभावात् / 'अबन्धकः' सर्वकर्मप्रपञ्चबन्धरहितः 'अयोगी' चरमगुणस्थानकवर्ती, सर्वबन्धहेतुत्वाभावादिति // 59 // उक्ता गुणस्थानकेषु बन्धस्थानयोजना / साम्प्रतं गुणस्थानकेष्वेवोदयसत्तास्थानयोजनां निरूपयन्नाह१सयोग्यवस्था क०ख० ग० घ००॥