________________ 164 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा समए समए खैविउं, कमेण सर्व तहिं कम्मं // (विशेषा० गा० 3082) रिउसेढीपडिवन्नो, समयपएसंतरं अफुसमाणो / एगसमएण सिज्झइ, अह सागारोवउत्तो सो // (विशेषा० गा० 3088) अयं च समुद्धातविधिः सर्वोऽप्यावश्यकाभिप्रायेणोक्तः / तत्रेयं गाथा दंड कवाडे मंयंतरे य संहरणया सरीरत्ये।। भासाजोगनिरोहे, सेलेसी सिज्झणा चेव॥ (आ०नि० गा०९५५) इति // 29 // अभिहिता मार्गणास्थानेषु योगाः / साम्प्रतमेतेष्वेव उपयोगस्वरूपनिरूपणपूर्वकमुपयोगानभिधित्सुराह तिअनाण नाण पण चउ, देसण घार जिय लक्खणुवओगा। विणु मणनाण दुकेवल, नव सुरतिरिनिरयअजएसु // 30 // 'त्रीण्यज्ञानानि' मत्यज्ञानश्रुताज्ञानविभङ्गरूपाणि 'ज्ञानानि' मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यवज्ञानकेवलज्ञानलक्षणानि पश्च स्वोपज्ञकर्मविपाकटीकायां विस्तरेणाभिहितखरूपाणि 'चत्वारि दर्शनानि' चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि इत्येवं द्वादशोपयोगाः प्रामिरूपितशब्दार्था भवन्ति / किंविशिष्टाः ? इत्याह-"जिय लक्खण" ति प्राकृतत्वाद् विभक्तिलोपः, 'जीवस्य' आत्मनः 'लक्षणं' लक्ष्यते-ज्ञायते तदन्यव्यवच्छेदेनेति लक्षणम्-असाधारणं खरूपम् / अत एवोक्तमन्यत्र-"उपयोगलक्षणो जीवः" इति / ते च द्विधा—साकारा अनाकाराश्च / तत्र पञ्च ज्ञानानि त्रीण्यज्ञानानि इत्यष्टावुपयोगाः साकाराः, चत्वारि दर्शनानि अनाकारा उपयोगाः / यदाह प्रवचनार्थसार्थसरससरसीरुहसमूहप्रकाशनसहस्रभानुर्भगवान् श्रीमदार्यश्यामः प्रज्ञापनायामुपयोगपदेऽष्टमे__ कतिविहे णं भंते ! उवओगे पन्नते ! गोयमा! दुविहे उवओगे पन्नत्ते, त जहासागारोवओगे य अणागारोवओगे य। सागारोवओगे णं भंते ! कतिविहे पन्नते ? गोयमा ! अट्ठविहे पन्नते, तं जहा-आभिणिबोहियनाणसागारोवओगे सुयनाणसागारोवओगे ओहिनाणसागारोवओगे मणपज्जवनाणसागारोवओगे केवलनाणसागारोवओगे मइअन्नाणसागारोवओगे १खवियं कमसो सेलेसिकालेणं / इति विशेषावश्यकभाष्ये // 2 ऋजुधेणिप्रतिपन्नः समयप्रदेशान्तरमस्पृशन् / एकसमयेन सिध्यति अथ साकारोपयुक्तः सः॥ 3 दण्डः कपाटं मन्या अन्तराणि संहरणता शरीरस्थः / भाषायोगनिरोधः शैलेशी सिद्धिश्चैव // 4 अस्मत्पार्श्ववर्तिषु सर्वेष्वपि पुस्तकादर्शेषु जैनधर्मप्रसारकसमया मुद्रिते चादर्श "उपयोगपदेऽष्टमे" इत्येवमेवोपलभ्यते परं प्रज्ञापनाया अष्टमपदं तु संज्ञापदमेव, उपयोगपदं तु एकोनत्रिंशत्तममेवेति // 5 कतिविधो भदन्त ! उपयोगः प्रज्ञप्तः ? गौतम! द्विविध उपयोगः प्रज्ञप्तः, तद्यथा-साकारोपयोगश्चानाकारोपयोगश्च / साकारोपयोगो भदन्त ! कतिविधः प्रज्ञप्तः गौतम ! अष्टविधः प्रज्ञप्तः, तद्यथा-आभिनिबोधिकज्ञानसाकारोपयोगः 1 श्रुतज्ञानसाकारोपयोगः 2 अवधिज्ञानसाकारोपयोगः 3 मनःपर्यवज्ञानसाकारोपयोगः 4 केवलज्ञानसाकारोपयोगः 5 मत्यज्ञानसाकारोपयोगः 6 श्रुताशानसाकारोपयोगः 7 विभाज्ञानसाकारोपयोगः 8 / अनाकारोपयोगो भदन्त / कतिविधः प्रज्ञप्तः ? गौतम! चतुर्विधः प्रज्ञप्तः, तद्यथा-चक्षुर्दर्शनानाकारोपयोगः 1 अचक्षुर्दर्शनानाकारोपयोगः २अवधिदर्शनानाकारोपयोगः 3 केवलदर्शनानाकारोपयोगः४॥