________________ 29) षडशीतिनामा चतुर्थः कर्मग्रन्थः / 161 यदाह धर्मसारमूलटीकायां भगवान् श्रीहरिभद्रसूरिः __ मनोवचसी तदा न व्यापारयति, प्रयोजनाभावात् / काययोगस्य तु औदारिककाययोगस्यौदारिकमिश्रकाययोगस्य वा कार्मणकाययोगस्य वा व्यापारो न शेषस्य, लब्ध्युपजीवनाभावेन शेषस्य काययोगस्याऽसम्भवात् / तत्र प्रथमाष्टमसमययोरौदारिककायप्राधान्याद् औदारिककाययोग एव, द्वितीयषष्ठसप्तमकेषु पुनः कार्मणशरीरस्यापि व्याप्रियमाणत्वाद् औदारिकमिश्र एव, तृतीयचतुर्थपञ्चमेषु तु केवलमेव कार्मणं शरीरं व्यापारभागिति कार्मणकाययोगः / यदाहुः श्रीमदार्यश्यामपादाः श्रीप्रज्ञापनायां षट्त्रिंशत्तमे समुद्धातपदे पढमट्ठमेसु समएसु ओरालियसरीरकायजोगं जुंजइ, बिइयछट्ठसत्तमेसु समएसु ओरालियमीसगसरीरकायजोगं झुंजइ, तइयचउत्थपंचमेसु समएसु कम्मगसरीरकायजोगं जुंजइ // (पत्र 601-2) भाष्यकारोऽप्याह ने किर समुग्धायगओ, मणवइजोगप्पओयणं कुणइ / ओरालियजोगं पुण, जुंजइ पढमऽ8मे समए // उभयवावाराओ, तम्मीसं बीयछट्ठसत्तमए / तिचउत्थपंचमे कम्मगं तु तम्मचचिट्ठाओ॥(विशे० गा० 3054-3055) ततः समुद्घातात् प्रतिनिवृत्तो मनोवाकाययोगत्रयमपि व्यापारयति / यतः स भगवान् भवधारणीयकर्मसु नामगोत्रवेदनीयेप्वचिन्त्यमाहास्यसमुद्धातवशतः प्रभूतमायुषा सह समीकृतेष्वप्यन्तर्मुहूर्तभाविपरमपदो यदाऽनुत्तरौपपातिकादिना देवेन मनसा पृच्छयते तर्हि व्याकरणाय मनःपुद्गलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यमसत्यामृषारूपं वा; मनुष्यादिना पृष्टः सन् अपृष्टो वा कार्यवशाद् गृहीत्वा भाषापुद्गलान् वाग्योगम् , तमपि सत्यमसत्यामृषारूपं वा; न शेषान् वाड्मनोयोगान् , क्षीणरागद्वेषत्वात् ; काययोगं तु गमनादिचेष्टासुः तदेवमन्तर्मुहूर्त कालं यथायोगं योगत्रयव्यापारभाक् केवली भूत्वा तदनन्तरम् अत्यन्ताप्रकम्पं लेश्यातीतं परमनिर्जराकारणं ध्यानं प्रतिपित्सुरवश्यं योगनिरोधाय उपक्रमते, योगे सति यथोक्तरूपस्य ध्यानस्याऽसम्भवात् / यदाह भाष्यसुधाम्भोधिः 'विणिवत्तसमुग्धाओ, तिन्नि वि जोगे जिणो पउंजिज्जा / सच्चमसच्चामोसं, च सो मणं तह वईजोगं // ओरालकायजोगं, गमणाई पाडिहारियाणं च / 1 प्रथमाष्टमयोः समययोरौदारिकशरीरकाययोगं युनकि, द्वितीयषष्ठसप्तमेषु समयेषु औदारिकमिश्रशरीरकाययोगं युनक्ति, तृतीयचतुर्थपञ्चमेषु समयेषु कार्मणशरीरकाययोगं युनक्ति // 2 न किल समुद्धातगतो मनोवाग्योगप्रयोजनं करोति / औदारिकयोगं पुनर्युनकि प्रथमाष्टमयोः समययोः // उभयव्यापारात् तन्मिधं द्वितीयषष्टसघ्रमेषु / तृतीयचतुर्थपञ्चमेषु कार्मणं तु तन्मात्रचेष्टायाः // 3 विनिवृत्तसमुद्धातस्त्रीनपि योगान् जिनः प्रयुजीत / सत्यमसत्यामृषं च स मनस्तथा वाग्योगम् // औदारिककाययोगं गमनादि प्राविहारिकाणांच। क.२१