________________ 22 षडशीतिनामा चतुर्थः कर्मग्रन्थः / 159 श्रीकुलगृहस्य भगवतः केवलिनः सम्भवति, तस्य हि समुद्धातगतस्य तृतीयचतुर्थपञ्चमसमयेषु कार्मणम् , “कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च / " (प्रश० का०२७७) इति वचनात् , द्वितीयषष्ठसप्तमसमयेष्वौदारिकमिश्रम्, "मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु // " (प्रश० का० 276) इति वचनाद् अवाप्यत इति यथाख्यातसंयमे द्वयोरपि सम्भवात् / ___ अथ विनेयजनानुग्रहाय केवलिसमुद्धातखरूपमभिधीयते-तत्र सम्यग्-अपुनर्भावेन उत्प्राबल्येन कर्मणो हननं घातः प्रलयो यस्मिन् प्रयत्नविशेषे स समुद्धातः / अयं च केवलिसमुद्धातोऽष्टसामयिकः, तं च प्रारभमाणः प्रथममेवाऽऽयोजिकाकरणमान्तौहूर्तिकमुदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमभ्येति / अथाऽऽयोजिकाकरणमिति कः शब्दार्थः ! उच्यते"आइ मर्यादायाम्" आ-मर्यादया केवलिदृष्टया योजनं-शुभानां योगानां व्यापारणमायोजिका, "भावे" (सि० 5-3-122) णकः, तस्याः करणमायोजिकाकरणम् / आह च कइसमइए णं भंते ! आओजीकरणे पन्नते ! गोयमा! असंखेजसमइए अंतोमुहुत्तिए आओजीकरणे पन्नते // (प्रज्ञापनापत्र 601-1) __ अयं कृतकृत्योऽपि केवली किमर्थ समुद्धातं करोति ! इति चेद्, उच्यते-वेदनीयनामगोत्राणामायुषा सह समीकरणार्थम् / यदाह भगवान् श्रीभद्रबाहुखामी 'नाऊण वेयणिजं, अइबहुयं आउयं च थोवागं / / ___ गंतूण समुग्घायं, खवेइ कम्मं निरवसेसं // (आ. नि. गा. 954) प्रज्ञापनायामप्युक्तम् कैम्हा णं भंते ! केवली समुग्घायं गच्छइ ? गोयमा ! केवलिस्स चत्वारि कम्मंसा अक्खीणा अवेइया अणिजिन्ना भवन्ति / तं जहा—वेयणिजे आउए नामे गोए / सबबहुए से वेयणिजे कम्मे हवइ, सबथोवे से आउए कम्मे हवइ, विसमं समं करेइ बंधणेहिं ठिईहि य, विसमसमीकरणयाए बंधणेहिं ठिईहि य एवं खलु केवली समुग्घायं गच्छह // (पत्र 601-1) ' "बंधणेहिं" ति बध्यन्त आत्मप्रदेशैः सह लोलीभावेन संश्लिष्टाः क्रियन्ते योगवशाद् ये ते बन्धनाः, "भुजिपत्यादिभ्यः कर्मापादाने" (सि० 5-3-128) इति कर्मण्यनटू, कर्मपरमाणवः, स्थितयः वेदनाकालाः, शेषं सुगमम् / उक्तं च आयुषि समाप्यमाने, शेषाणां कर्मणां यदि समाप्तिः / न स्यात् स्थितिवैषम्याद् , गच्छति स ततः समुद्भातम् // स्थित्या च बन्धनेन च, समीक्रियार्थ हि कर्मणां तेषाम् / अन्तर्मुहशेषे, तदायुषि समुजिघांसति सः // 1 कतिसामयिकं भदन्त ! आयोजिकाकरणं प्रज्ञप्तम् ? गौतम ! असङ्ख्येयसामयिकमान्तमौदूर्तिकम् आयोजिकाकरणं प्रज्ञप्तम् // 2 ज्ञाला वेदनीयं अतिबहुकं आयुष्कं च स्त्रोकम् / गला समुद्धातं क्षपयति कर्म निरवशेषम् // 3 कस्माद् भदन्त ! केवली समुद्धातं गच्छति? गौतम | केवलिनश्चलारः कर्माशा अक्षीणा भवेदिता अनिजीर्णा भवन्ति / तद्यथा-वेदनीयं आयुष्कं नाम गोत्रम् / सर्वबहुकं तस्य वेदनीयं कर्म भवति, सर्वस्तोकं तस्यायुःकर्म भवति, विषमं समं करोति, बन्धनैः स्थितिभिव, विषमस्य समकरणाय बन्धनः स्थितिभिव एवं खलु केवली समुद्धातं गच्छति //