________________ 15-17] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 115 रैकेन्द्रियपर्याप्तलक्षणानि भवन्ति / 'असंज्ञिनि' संज्ञिव्यतिरिक्त कोलिकनलिकन्यायेन प्रथमशब्दस्य सम्बन्धात् 'प्रथमानि' आदिमानि द्वादश जीवस्थानानि पर्याप्तापर्याप्तसूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरसंज्ञिपञ्चेन्द्रियलक्षणानि भवन्ति, सर्वेषामपि विशिष्टमनोविकलतया संज्ञिप्रतिपक्षत्वाविशेषात् , संज्ञिप्रतिपक्षस्य चाऽसंज्ञित्वेन व्यवहारात् / “दु दु विगल" ति 'विकलेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु द्वे द्वे जीवस्थानके भवतः / तत्र द्वीन्द्रियेषु द्वीन्द्रियोऽपर्याप्तः पर्याप्त इति द्वे, त्रीन्द्रियेषु त्रीन्द्रियोऽपर्याप्तः पर्याप्त इति द्वे, चतुरिन्द्रियेषु चतुरिन्द्रियोऽपर्याप्तः पर्याप्त इति द्वे // 15 // दस चरम तसे अजयाहारग तिरि तणु कसाय दु अनाणे। पढमतिलेसा भवियर, अचक्खु नपु मिच्छि सव्वे वि // 16 // 'से' त्रसकाये 'चरमाणि' अन्तिमानि पर्याप्तापर्याप्तद्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रियलक्षणानि दश जीवस्थानानि भवन्ति, द्वीन्द्रियादीनामेव त्रसत्वात् / 'अयते' अविरते सर्वाण्यपि जीवस्थानानि भवन्ति / तथा आहारके "तिरि" ति तिर्यग्गतौ 'तनुयोगे' काययोगे कषायचतुष्टये 'द्वयोरज्ञानयोः' मत्यज्ञानश्रुताज्ञानरूपयोः 'प्रथमत्रिलेश्यासु' कृष्णलेश्यानीललेश्याकापोतलेश्यालक्षणासु भव्ये 'इतरस्मिन्' अभव्ये “अचक्खु" ति अचक्षुर्दर्शने "नपु" ति नपुंसकवेदे “मिच्छ” ति मिथ्यात्वे 'सर्वाण्यपि' चतुर्दशापि जीवस्थानकानि भवन्ति, सर्वजीवस्थानकव्यापकत्वाद् अयतादीनामिति // 16 // पजसन्नी केवलदुग, संजय मणनाण देस मण मीसे / पण चरम पज वयणे, तिय छ व पन्जियर चक्खुम्मि // 17 // "पजसन्नि" ति पर्याप्तसंज्ञिलक्षणमेकमेव जीवस्थानं भवति / क ? इत्याह-'केवलद्विके' केवलज्ञानकेवलदर्शनलक्षणे 'संयतेषु' सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातरूपपञ्चप्रकारसंयमवत्सु "मणनाण" ति मनःपर्यायज्ञाने "देस" ति देशयते-देशविरते श्रावक इत्यर्थः, "मण" ति मनोयोगे “मीस" ति मिश्रे-सम्यग्मिथ्यादृष्टौ / तत्र केवलद्विके संयतेषु मनःपर्यायज्ञाने देशविरते च संज्ञिपर्याप्तलक्षणं जीवस्थानकं विना नान्यद् जीवस्थानकं सम्भवति, तत्र सर्वविरतिदेशविरत्योरभावात् / मनोयोगेऽप्येतदन्तरेणाऽन्यद् जीवस्थानकं न घटते, तत्र मनःसद्भावायोगात् / मिश्रे पुनः पर्याप्तसंज्ञिव्यतिरेकेण शेषं जीवस्थानकं तथाविधपरिणामाभावादेव न सम्भवतीति / तथा पञ्च जीवस्थानानि 'चरमाणि' अन्तिमानि 'पर्याप्तानि' पर्याप्तद्वीन्द्रियपर्याप्तत्रीन्द्रियपर्याप्तचतुरिन्द्रियपर्याप्तासंज्ञिपञ्चेन्द्रियपर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणानि “वयण" ति वचनयोगे-वाग्योगे भवन्ति न शेषाणि, तेषु वाग्योगासम्भवात् / “तिय छ व पन्जियर चक्खुम्मि" ति चक्षुर्दर्शने त्रीणि जीवस्थानानि पर्याप्तचतुरिन्द्रियपर्याप्तासंज्ञिपञ्चेन्द्रियपर्याप्तसंज्ञिपञ्चेन्द्रियरूपाणि नान्यानि, तेषु चक्षुष एवाभावात् / अत्रैव मतान्तरेण विकल्पमाह-षड् वा जीवस्थानानि चक्षुर्दर्शने भवन्ति / कथम् ? इत्याह-"पजियर" ति पूर्वप्रदर्शितपर्याप्तत्रिक सेतरमपर्याप्तत्रिकसहितं षड् भवन्ति / इदमुक्तं भवति-अपर्याप्तपर्याप्तचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियसंक्षिपञ्चेन्द्रियरूपाणि षड् जीवस्थानानि चक्षुर्दर्शने भवन्ति, चतुरिन्द्रियादीनामिन्द्रियपर्याप्त्या १°नलक क० ख० ग० ङ० // 2 प्येनमन्तरे क० घ० रु०॥ क. 19