________________ 124 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा केवलदर्शनलक्षणकेवलद्विकविहीनाः शेषा मतिज्ञानश्रुतज्ञानावधिज्ञानमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानाचक्षुर्दर्शनावधिदर्शनरूपा अष्टावुपयोगा भवन्ति // 6 // उक्ता जीवस्थानेषु उपयोगाः / साम्प्रतं जीवस्थानेष्वेव लेश्याः प्रतिपिपादयिषुराह सन्निदुगि छ लेस अपज्जयायरे पढम चउ ति सेसेसु। सत्तट्ठबंधुदीरण, संतुदया अट्ट तेरससु॥७॥ संज्ञिनो द्विकम्-अपर्याप्तपर्याप्तलक्षणं संज्ञिद्विकं तस्मिन् , संज्ञिन्यपर्याप्ते संज्ञिनि पर्याप्ते चेत्यर्थः, षड् लेश्याः-कृष्णनीलकापोततेजःपद्मशुक्ललक्षणा भवन्ति / अपर्याप्तबादरे प्रथमाश्वतस्रः-कृष्णनीलकापोततेजोरूपा भवन्ति / तेजोलेश्या कथमस्मिन्नवाप्यते ! इति चेद् उच्यते यदा पुढवीआउवणस्सइगब्भेपज्जत्तसंखजीवीसु / सग्गचुआणं वासो, सेसा पडिसेहिया ठाणा // (60 सं० गा० 180). इति वचनात् कश्चनापि देवः खर्गलोकात् च्युतः सन् बादरैकेन्द्रियतया मूदकतरुषु मध्ये समु. त्पद्यते तदा तस्य घण्टालालान्यायेन सा प्राप्यत इत्यदोषः। __ "ति सेसेसु" ति प्रथमा इत्यनुवर्तते, प्रथमास्तिस्रः-कृष्णनीलकापोतलक्षणाः 'शेषेषु' प्रागुकापर्याप्तपर्याप्तसंज्ञिपञ्चेन्द्रियापर्याप्तबादरैकेन्द्रियवर्जितेषु अपर्याप्तपर्याप्तसूक्ष्मैकेन्द्रियरद्वीन्द्रिय२त्रीन्द्रियर चतुरिन्द्रियारऽसंज्ञिपञ्चेन्द्रियरपर्याप्तबादरैकेन्द्रिय लक्षणेष्वेकादशसु जीवस्थानेषु भवन्ति ता नान्याः, तेषां सदैवाऽशुभपरिणामत्वात् , शुभपरिणामरूपाश्च तेजोलेश्यादयः // तदेवं जीवस्थानकेषु लेश्या अभिधाय साम्प्रतमेतेष्वेव बन्धोदयोदीरणासत्ताख्यस्थानचतु. ष्टयमभिधित्सुराह-"सत्तट्ठ बंधु" इत्यादि / सप्त वा अष्टौ वा सप्ताष्टाः, "सुज्वार्थे सध्या सयेये सध्यया बहुव्रीहिः" (सि. 3-1-19) इति सूत्रेण बहुव्रीहिसमासः, यथा द्वित्रा इत्यादौ / बन्धश्च उदीरणा च बन्धोदीरणे सप्ताष्टानां बन्धोदीरणे सप्ताष्टबन्धोदीरणे त्रयोदशसु जीवस्थानेषु संज्ञिपर्याप्तवर्जितेषु शेषेषु भवतः / एतदुक्तं भवति-अपर्याप्तसूक्ष्मैकेन्द्रिय१पर्यातसूक्ष्मैकेन्द्रियारऽपर्याप्तबादरैकेन्द्रिय३पर्याप्तबादरैकेन्द्रियाऽपर्याप्तद्वीन्द्रिय५पर्याप्तद्वीन्द्रियाऽपर्याप्तत्रीन्द्रिय 7 पर्याप्तत्रीन्द्रिया८ऽपर्याप्तचतुरिन्द्रिय ९पर्याप्तचतुरिन्द्रिया१०ऽपर्याप्तासंज्ञिपञ्चेन्द्रिय११पर्याप्तासंज्ञिपञ्चेन्द्रिया१२ऽपर्याप्तसंज्ञिपञ्चेन्द्रिय१३रूपेषु त्रयोदशसु जीवस्थानेषु सप्तानामष्टानां वा बन्धः, सप्तानामष्टानां वा उदीरणा। तथाहि-यदाऽनुभूयमानभवायुषस्त्रिभागनवभागादिरूपे शेषे सति परभवायुर्बध्यते तदाऽष्टानामपि कर्मणां बन्धः, शेषकालं त्वायुषो बन्धाभावात् सप्तानामेव बन्धः / तथा यदाऽनुभूयमानभवायुरुदयावलिकावशेषं भवति तदा सप्तानामुदीरणा, अनुभूयमानभवायुषोऽनुदीरणात् , आवलिकाशेषस्योदीरणाऽनहत्वात् / उदीरणा हि उदयावलिकाबहिर्वर्तिनीभ्यः स्थितिभ्यः सकाशात् कषायसहितेन कषायासहितेन वा योगकरणेन दलिकमाकृष्य उदयसमयप्राप्तदलिकेन सहाऽनुभवनम् / तथा चोक्तं कर्मप्रकृतिचूर्णी१ पृथ्व्यम्बनस्पतिगर्भपर्याप्तसङ्ख्यातवर्षजी विषु / खर्गच्युताना वासः शेषाणि प्रतिषिद्धानि स्थानानि /