________________ 16-17] बन्धखामित्वाख्यस्तृतीयः कर्मग्रन्थः / कुतोऽपि हेतोः पूर्वाचार्यैः स नोक्तः / एवं योगेषु बन्धखामित्वमुक्तम् / अब वेदादिषु तद. भिघित्सुः प्रथम गुणस्थानकानि तेष्वाह-"वेयतिग" इत्यादि / 'वेदत्रिके' स्त्रीवेदपुंवेदनपुंसकवेदरूपे 'नव' नवसझ्याकानि “संजलण" इत्याद्यतनगाथा(१७)स्य "पढम" इति पदस्पात्रापि सम्बन्धात् 'प्रथमानि' मिथ्यात्वादीनि अनिवृत्तिबादरान्तानि गुणस्थानकानि भवन्ति, ततः परं वेदानामभावात् / एतेषु यः कर्मस्तवोक्तः सामान्यवन्धः स द्रष्टव्यः / तथवा सामान्यतो नानाजीवापेक्षया विंशत्युत्तरशतम् , मिथ्यात्वे सप्तदशोतरशतम् , सासादने एकोतरशतम् , मिशे चतुःसप्ततिः, अविरते सप्तसप्ततिः, देश विरते सप्तषष्टिः, प्रमचे त्रिषष्टिः, अप्रमते एकोनषष्टिरष्टपञ्चाशद्वा, निवृत्तिबादरे प्रथमभागेऽष्टपञ्चाशत् , मागपञ्चके षट्पञ्चाशत्, सक्षमभागे षड्विंशतिः, अनिवृत्तिवादरे आधे भागे द्वाविंशतिः, एवमन्यत्रापि गुणस्थानकेषु यथासम्भवं कर्मस्तवोको बन्धो वाच्यः / कषायद्वारे-आयेऽनन्तानुबन्धिक्रोधमानमायालोमरूपे कषायचतुष्के द्वे प्रथमे मिथ्यात्वसासादनाख्ये गुणस्थानके तत्र तीर्थकरबन्धस्य सम्यक्त्वप्रत्ययत्वाद् आहारकद्विकबन्धस्य च संयमहेतुत्वाद् अनन्तानुबन्धिषु तदभावात् सामान्येन सप्त. दशोत्तरशतम् , मिथ्यात्वे सप्तदशोतरशतम् , सासादने एकोतरशतम् / द्वितीयेऽप्रत्याख्यानाख्ये कषायचतुष्के चत्वारि प्रथमानि मिथ्यात्वसासादनमिश्राऽविरतनामकानि गुणवानकानि, तत्राहारकद्विकबन्धाभावेन सामान्येन अष्टादशोत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , सासादने एकोत्तरशतम् , मिश्रे चतुःसप्ततिः, अविरते सप्तसप्ततिः / तृतीये प्रत्याख्यानावरणाख्ये कषाय. चतुष्के पञ्च आद्यानि मिथ्यात्वादीनि देशविरतान्ताने गुणस्थानकानि, देशविरते सतषष्टिः, शेषाणि तथैव // 16 // संजलणतिगे नव दस, लोभे चउ अजइ दुति अनाणतिगे। . पारस अचक्खुचक्खुसु, पढमा अहखाइ चरमचऊ // 17 // व्याख्या-'संज्वलनत्रिके' संज्वलनक्रोधमानमायारूपे नवाऽऽद्यानि गुणस्थानकानि / तत्र सामान्यवन्धाद् निवृत्तिबादरं यावद् वेदत्रिकन्यायेन विंशत्युतरशतादिको बन्धः, अनिवृत्तिबादरे तु प्रथमे भागे द्वाविंशतिः, द्वितीये पुंवेदरहिता एकविंशतिः, तृतीये संज्वलनकोपर. हिता विंशतिः, चतुर्थे संज्वलनमानरहिता एकोनविंशतिः, पञ्चमे संज्वलनमायारहिता अष्टा. दश / संज्वलनलोभस्य तु सूक्ष्मसम्परायेऽपि भावात् तत्र दश प्रथमानि गुणस्थानानि, तत्र नव तथैव, दशमे तु सूक्ष्मसम्पराये सप्तदश प्रकृतयः / संयमद्वारे-'अयते' असंयते चत्वारि आधानि गुणस्थानानि, तत्र सामान्यतोऽविरतसम्यग्दृष्टेरपि सङ्गृहीतत्वाद् जिननामक्षेपात् सप्तदशोचरशतं जातमष्टादशोत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , सासादने एकोचरशतम् , मिथे चतुःसप्ततिः, अविरते सप्तसप्ततिः / ज्ञानद्वारे-'अज्ञानत्रिके' मत्यज्ञानश्रुताज्ञानविमगरूपे द्वे मिथ्यात्वसासादने, त्रीणि वा गुणस्थानकानि मिश्रेण सह / अयमाशयः-मिश्रे ज्ञानाशोऽज्ञानांशश्वास्ति, तत्र यदाज्ञानांशप्राधान्यविवक्षा तदाऽज्ञानत्रिके गुणस्थानकद्वयमेव, अज्ञानांशप्राधान्यविवक्षायां तु तृतीयं मिश्रमपि, तत्रौधे सप्तदशोत्तरशतम् , मिथ्यात्वे सप्तदशोतरशतम् , सासादने एकोतरशतम् मिश्रे चतुःसप्ततिः / दर्शनद्वारे-चक्षुरचक्षुर्दर्शनयोः प्रथमानि