________________ 277 जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / तद् व्याचष्टे- धर्मान्तरैक्यादिपरिणामो हि धर्मान्तरनिषेधान्न धर्मान्तराविर्भवनं च तवयभूतं कार्यम् , स तु परिणामः कार्यत्वात् , पूर्ववत् प्रतिज्ञार्थाव्यतिरेकाद् रथादिवत सोऽपि विशिष्टबुद्धिमद्विहितः, तस्सादयुक्तं 'स्वत एव परिणमन्ते सत्त्वादयः' इति / __ अन्वाह चेति, जिनमतानुसारेण- एकोऽद्वितीयः प्रधानो वा वशी ज्ञत्वस्वातन्त्र्याभ्यां निःक्रि( ष्क्रियाणामज्ञास्वतत्राणां [परतत्राणां] परतत्रा ज्ञा अपि हि निष्क्रिया एव बहूनामनन्तानां प्रधानाण्वादीनां कर्म-करण-सम्प्रदानापादानाधिकरण-प्रधानशक्तीनामनन्तानामपि प्रवर्तयितृत्वात् , स्ववशीकर्तुं शक्तत्वाद् वशीति / एकं बीजं प्रधानं महदादिविपरिणत्या बहुधा वृह्या(ब्रीडा)दि-स्तम्बान्ता(ना)नन्तरभेदभिन्नजगत्तया यः करोति सृजति अधितिष्ठत्यात्माभिप्रायानुरूपेण तथा तथा व्यवस्थापयति / तमीश्वरी(रं) स्वतो भिन्नस्य भाव्यभवनस्य प्रधानादिसंज्ञस्य भावयितारमात्मस्थमात्मनि स्थितं क्षित्याद्यष्टमूर्ति सर्वगतं सर्वत्र तासां सद्भावात् येऽनुपश्यन्ति, तत्प्रसादादेव तज्ज्ञानानुसारेण योगाभ्यासप्रसादक्रमेण / केऽनुपश्यन्ति ? धीरा अविचलितयोगसमाधयः। को योगः ? "प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा / तर्कः समाधिरित्येष षडङ्गो योग उच्यते // " [अमृतनादोपनिषत् , अविस्मृति ] तत्रेन्द्रियाणां विषयेभ्यो मनसश्च प्रत्याहरणं प्रत्याहारः / प्राणायामस्त्रिविधःरेचकः, कुम्भकः, धारक इति / तत्र रेचक आन्तरं वायुं बहिर्निष्काशयति नासिकाद्वारेण / पूरको बाह्यमन्तः प्रवेश्य पूरयति / कुम्भकः पूर्णकुम्भवदस्पन्दं वायु सामीप्येनावस्थापयति / ध्यानमिष्टदेवताचिन्तनं वा / धारणा यथाऽभ्यासं हृदयादिषु प्रदेशेषु मनसोऽवस्थापनं यथा पूर्व नाभौ, ततो हृदये, कण्ठे, नासिकाग्रे, भ्रुवो मध्ये ललाटे मूर्धनीति / तर्कः शून्यागार-गिरिकन्दराऽऽयेकान्ते शुचौ देशे शरीरमृज्वायस्य दन्ताग्राणि जिह्वाग्रेण सन्धाय पल्यं(य)क-स्वस्तिक-वीरासनाद्यासनं समपादादि[स्थानं वाऽs]स्थाय ध्यायतो मे समाधिर्भवतीति तर्कयेत् , अनेनेत्थं कृते [न] क्रियाविशेषेणाहार-विहार-स्वाध्यायादिना ध्यानसमाधिर्भवतीति तदुपायविचार ऊहस्तकः / ध्यानयोगाभिरतिः समाधिरित्येष षडङ्गो योगः / अनेन योगेन सर्वत्र क्षित्यादिमूर्तिमीश्वरं दृष्ट्वा पश्चाद् भावितात्मा तमात्मस्थमेव पश्यति- “यदत्रै मम शरीरे कठिनं सा पृथिवी परमेश्वरमूर्तिः। यद् द्रवं तज१ "एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति / तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् // " श्वेताश्व०६।१२. 2 ब्रह्या भ। 3 गलोपनि पृ० 261.