________________ . .. .. .. NAR TEP MayaM2. प्रस्तावना प्राचीने भारतवर्षे तार्किकेषत्कृष्टरूपां प्रसिद्धि प्राप्तवता मल्लवादिना निर्मितस्तर्ककर्कशोऽपि विशदयुक्तिविशिष्टो नयचक्रनामाऽयं ग्रन्थः प्रमोदावहो भविष्यति प्रतिभाशालिनाम् / ____सुप्रसिद्धन आचार्यश्रीहेमचन्द्रेण निर्मिते सिद्धहेमचन्द्राभिधे निजे शब्दानुशासने 'उत्कृष्टेऽनुपेन' इति 2 / 2 / 39 सूत्रस्य बृहद्वृत्तौ 'अनु मल्लवादिनं तार्किकाः' इत्युदाहरणद्वारा प्रतिपादितं खलत्कृष्टत्वं तार्किकेषु मल्लवादिनः / असाधारणप्रतिभावतोऽस्य विदुषः कतिचित् चरित्राण्यप्युपलभ्यन्ते चित्तचमत्कृतिकराणि प्राकृत-संस्कृत-भाषायां प्राचीनः कविभिर्विद्वद्भिश्च रचितानि गद्य-पद्यमयानि, यत्र नयचक्ररचनासम्बन्धस्तथा राजसभायां तद्विहितो बौद्धवादिविजयप्रसङ्गोऽपि वर्णितो विलोक्यते / भारतीयवादिविद्ववृत्तान्तजिज्ञासूनामितिहासगवेषिणां पाठकानां प्रमोदायात्र कानिचित् समुद्ध्रियन्ते / पत्तनस्थभाण्डागारीयग्रन्थसूच्यां (पृ. 194-195) या प्राकृता मल्लवादिकथाऽस्माभिनिर्दिष्टा, सा सं. 1291 वर्षे लिखिता ताडपत्रीयपुस्तिका नाधुना प्राप्तेति तां कथां नात्र प्रादर्शयम् / [1] - प्रायो विक्रमीयद्वादशशताब्द्या उत्तरार्धे विद्यमानो भद्रेश्वरसूरिः प्राकृतभाषामन्यां कथावल्यां नयचक्रनिर्माणसम्बद्धां गद्यां मल्लवादिकथामित्थं सूचयति स "वायग-समाणत्था य सामण्णओ वाइ-खमासमण-दिवायरा / भणियं च'वाई य खमासमणो, दिवायरो वायगो त्ति एगो(ग)ट्ठा उ। .. पुव्व-गयं जस्सेसं(म), जिणागमे तम्मि(स्सि)मे नाम / ' विसेसओ पुण पुव-गयं वाउ(इ)त्ता जो वायं दाउं समत्थो, सो वाई नाम जहा मल्लवाइ ति / मल्लवाय(इ)-कहा भण्णइ.. भरुयच्छे जिणाणंदो नाम सूरी / तहा तत्थेव बुद्धाणंदो नाम वाई / तेण य 'जो वाए पहारिस्सइ, तद्दरिसणेह(ण) न चिट्ठव्वयं ति पइण्णाए दिण्णो दि(जिणाणंदसूरिणा सह वाओ। तहा[भ]वियव्वयाए पहारियं सूरिणा। तओ सो नीसरिलं संघेण समं भरुयच्छाओ गंतुं ठिओ वलहिपुरीए / सूरि-भगिणीए दुल्लहेवी नाम / तीसे य अजियजसो जक्खो मल्लो य नाम तिणि पुत्ता; तेहि य समं पव्वदया। सूरि-समीवे निस्सेस-गुण न० च. प्रस्तावना 2