________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० अथोच्यते-स्त्रियो रत्नत्रयविरुद्धाः पुंसोऽन्यत्वात् देवादिवत् / सुप्रसिद्धो हि देवनारकतिर्यग्भोगभूमिजानां पुंसोऽन्येषां देवादित्वेन रत्नत्रयस्य विरोधः, एवं स्त्रीणां स्त्रीत्वेनैव अस्य विरोधः सिद्ध इति; तदसमीक्षिताभिधानम् ; यतोऽविकलकारणस्य भवतोऽन्यभावेऽभावात् विरोधगतिर्भवति / स्त्रीत्वसद्भावे च रत्नत्रयाभावः प्रत्यक्षतः, 6 अनुमानात्, आगमाद्वा प्रतीयेत? न तावत् प्रत्यक्षतः; रत्नत्रयस्य अतीन्द्रियत्वात् / नाप्यनुमानतः; तदभावाऽविनाभाविनो लिङ्गस्य कस्यचिदभावात् / नाप्यागमात् ; तत्र तदभावावेदिनः तस्याप्यसंभवात् / नहि सुरनारकादिवत् तत्र तदभावप्रतिपादकं किश्चित् प्रवचनवचनं संभवति / नन्वस्तु रत्नत्रयमात्रं तत्र न तदस्माभिर्निषिध्यते तस्य मोक्षाऽप्रसाधकत्वात् , यत्तु मोक्षप्रसाधकं प्रकर्षपर्यन्तप्राप्तम् तस्य तत्राभावात् मोक्षाभावः 10 इति; तद्युक्तम् ; अदृष्टे विरोधप्रतिपत्तेरनुपपत्तेः / न खलु प्रकर्षपर्यन्तं प्राप्तं रत्नत्रयम् अस्माकं दृश्यम् , न चादृश्यस्य विरोधः प्रतिपत्तुं शक्यः अतिप्रसङ्गात् / न चाप्रतिपन्नविरोधस्य तस्य तत्राभावो ग्रहीतुं शक्यः अतिप्रसक्तेरेव / अथ मतम्-अनुमानतः स्त्रीणां निर्वाणाभावप्रतीतेर्न तत्र तत्सद्भावाभ्युपगमो युक्तः; तथाहि-नास्ति स्त्रीणां निर्वाणम् सप्तमपृथिवीगमनाभावात् सम्मूछिमादिवत् इति; 15 तदसङ्गतम् ; विपर्ययव्याप्तेरसिद्धितः तद्गमनाभावस्य निर्वाणाभावेनाऽव्याप्तेः / इह यद् यत्र नियम्यते तद्विपर्ययेण तद्विपक्षस्य व्याप्तौ नियमो दृष्टः, यथा अग्निना धूमस्य व्याप्तौ धूमाभावेन अग्न्यभावस्य, शिंशपात्वस्य च वृक्षत्वेन व्याप्ती वृक्षत्वाभावस्य शिंशपात्वाभावेन व्याप्तिः। न चैवमत्र विपर्ययव्याप्तिरस्ति; तदभावश्च सप्तमपृथिवीगम नादेः निर्वाणं प्रत्यकारणत्वात् अव्यापकत्वाच्च सिद्धः / नहि सप्तमपृथिवीगमनं निर्वा20 णस्य रत्नत्रयवत् कारणं सिद्धम् गुणाष्टकवद्वा व्यापकम् येन तदभावे निर्वाणाभावः (1) "रत्नत्रयं विरुद्धं स्त्रीत्वेन यथामरादिभावेन / इति वाङमात्रं नात्र प्रमाणमाप्तागमोडन्यद्वा // जानीते जिनवचनं श्रद्धत्ते चरति चायिका शबलम् / नास्यास्त्यसंभवोऽस्यां नादृष्टविरोधगतिरस्ति ।"-स्त्रीमु० श्लो० 3-4 / “अथ स्त्रीत्वादेव न तासां तत्परिक्षयसामर्थ्यम् ; न; स्त्रीत्वस्य तत्परिक्षयसामर्थ्येन विरोधासिद्धेः / नहि अविकलकारणस्य तत्परिक्षयसामर्थ्यस्य स्त्रीत्वसद्भावादभावः क्वचिदपि निश्चितो येन अग्निशीतयोरिव सहानवस्थानविरोधः तयोः सिद्धो भवेत् ।"-सन्मति० टी० पु०७५२ / प्रज्ञा० मलय० पृ० 20 A. / नन्दि० मलय० पृ० 132 B. (2) रत्नत्रयस्य / (3) स्त्रीषु / (4) रत्नत्रयस्य / (5) "सप्तमपृथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते / निर्वाणाभावेनापश्चिमतनवो न तां यान्ति ॥"-स्त्रीमु० श्लो० 5 / सन्मति० टी० पृ०७५३ / प्रज्ञा० मलय० प० 20 B. / नन्दि० मलय० 10 132 B. / रत्नाकराव० 757 / षड्द० बृह० श्लो० 52 / शास्त्रवा० यशो० पृ० 428 A. / यक्तिप्र० पृ० 115 / 1 सोऽन्यत्वं तेषां श्र० 2 प्रतीयते श्र०। 3-मात्र तन्त्रम न ब०, मात्र तंत्र न थ०। 4 मोक्षप्रसा-श्र०। 5 यत्तु प्रमाणकृतप्रसा-ब०। 6-युक्तं न दृष्टे विरो-ब०। 7 चादृश्ये वि-श्र०। 8-व्याप्तेरिति इह श्र०। 9 गुणाष्टकवदव्याप-श्र० /