________________ 862 . लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० प्रक्षीणाशेषावरणस्य भगवतो ज्ञानादिक्षयाभाववत् प्रक्षीणाशेषमोहस्य क्षुत्पीडालेशस्याप्यमुपपत्तेः। मोहनीयसहायं वेदनीयं क्षुत्करणे प्रभुः' इति प्राक् प्रपञ्चतः समर्थितत्वात् / “एकादश जिने' [ तत्त्वार्थसू० 9 / 11 ] इत्यागमोऽपि क्षुधाोकादशपरीषहप्रतिषेधपरः प्रतिपत्तव्यः, 'एकेन अधिका न दश एकादश' इति व्युत्पत्तेः / मोहनीयसहायस्य 5 वेदनीयस्य कार्यभूताः क्षुधायेकादशपरीषहाः, तत्सहायस्य च अर्हति अत्यन्तप्रक्षयात् न वेदनीयोदयोदयमात्रात् तत्र ते सन्ति, अन्यथा रोगादिपरीषहाणामपि तत्र सत्त्वप्रसङ्गात् , अस्मदादौ तेंदुदये क्षुत्पिपासावद् रोगादीनामप्युपलम्भात् / छद्मस्थजिनेषु भोगभूमिजादिषु च तदुदयेऽपि रोगादीनामभावाद् व्यभिचारे कवलाहारस्यापि व्यभिचारोऽस्तु, देवादिषु तदुदयेऽपि तदभावात् / यच्चान्यदुक्तम्-'उत्कर्षेण देशोनपूर्वकोटिं विहरतः' इत्यादि; तदप्यचारु; शरीरस्थितेः आयुःकर्मण एव नियतनिमित्तप्रतिपादनात् , भुक्ति विनापि आकालं तस्थितेः समर्थितत्वाच्च / यदप्यभिहित 'भुक्तेर्दोषरूपतया भगवत्यसंभवे वचनादेरप्यसंभवः स्यात्' इत्यादि; तदप्यभिधानमात्रम् ; वचनादेः तीर्थकरत्वकर्मोदयापादितत्वात् दोषरूपत्वा15 संभगच्च, नहि अष्टादशदोषेषु मध्ये क्षुधादिवद् वचनमपि पठ्यते / भुक्तेरपि वेदनीयो दयापादितत्वात् तत्र सत्त्वमस्तु; इत्यप्यसङ्गतम् ; मोहसद्भावसहायस्यैवास्य तत्सम्पादने सामर्थ्यप्रतिपादनात् / यथैव हि मोहप्रक्षयसहायं तीर्थकरत्वं विशिष्टवचनादिविधाने समर्थं तथा मोहसद्भावसहायं वेद्यं भुक्तथादिविधाने इति / यदप्युक्तम्-'अवधिज्ञानिवत् सकलज्ञस्य सकलं जगत्पश्यतोऽपि अन्तरायासंभवः' (1) "अथवा 'एकादश जिने न सन्ति' इति वाक्यशेषः कल्पनीयः सोपस्कारत्वात्सूत्राणाम् ।"सर्वार्थ सि०९।११॥ "अथवा नायं वाक्यशेषः 'एकादश जिने कैश्चित्कल्प्यन्ते' इति; कि तर्हि ? एकादश सन्तीति / कथम् ? उपचारात्; यथा निरवशेषनिरस्तज्ञानावरणे परिपूर्णज्ञाने एकाग्रचिन्तानिरोधाभावेऽपि कर्मरजोविधूननफलसंभवात् ध्यानोपचारः तथा क्षुधादिवेदना-भावपरीषहाभावेऽपि वेदनीयकर्मोदय-द्रव्यपरीषहसद्भावात् एकादश जिने सन्तीत्युपचारो युक्तः।"-राजवा० 9 / 11 / "शक्तित एव केवलिन्येकादश परीषहाः सन्ति न पुनर्व्यक्तितः, केवलाद् वेदनीयाद् व्यक्तक्षुधाद्यसंभवादित्युपचारतस्ते तत्र परिज्ञातव्याः ।"-तत्वार्थश्लो० पृ० 492 / "तेण असादणिमित्ता परीसहा जिणवरे णत्थि ।"कर्मका० गा० 275 / "क्षत्पिपासादयो यस्मान्न समर्था मोहसंक्षये। द्रव्यकर्माश्रयात्तेषामस्तित्वमुपचारतः।"-भावसं० श्लो० 234 / “यच्चोपचारतोप्यस्यैकादश परीषहा न संभाव्यन्ते तत्र तनिषेधपरत्वात् सूत्रस्य, 'एकेनाधिका न दश परीषहा जिने एकादश जिने' इति व्युत्पत्तेः ।"-प्रमेयक० 10 307 / (2) वेदनीयोदये। (3) पृ० 854 पं०८। (4) पृ० 854 पं० 15 / (5) "क्षुत्पिपासाजरात जन्मान्तकभयस्मयाः / न रागद्वेषमोहाश्च' 'चशब्दात् चिन्ताऽरतिनिद्राविस्मयमदस्वेदखेदा गृह्यन्ते / एते अष्टादश दोषाः.."-रत्नक०, टी० 116 / (6) पू० 855 पं० 1 / 1 तत्र न सन्ति श्र०। 2 भक्तेरपि वेदनीयोदयापावितत्वात् तत्र गत्त्वमस्तु इत्यप्यसंभवाच्च नहि अष्टादश-आ० / 3 दोषोदयत्वा-ब० / 4 वेदनीयोपादि-आ०। 5 मोहसहा-ब०, श्र०।