________________ लघी० प्रमाणप्र० का०९] उत्पादादित्रयात्मकत्वसमर्थनम् 401 ___ नापि प्रमाणेसम्बन्धात् ; भाववद् अभावेऽपि अस्य गतत्वात् , ततश्च अभावस्यापि भाववत् सद्रूपताप्रसङ्गः तत्सम्बन्धाऽविशेषात् / अथ तदविशेषेऽपि यस्य प्रमाणसम्बन्धेन सत्त्वं बोध्यते स एव सन् नाऽन्यः; कथमेवं प्रमाणसम्बन्धः सत्त्वलक्षणम् ? किञ्च, यदि तत्सम्बन्धात् प्रागपि अर्थानां सत्त्वं सिद्धं स्यात् , तदा स्यादयं परिहारः। न च तत्सिद्धम् ; तत्सम्बन्धेन अर्थानां सत्त्वकल्पनावैयर्थ्यप्रसङ्गात् / परस्पराश्रयश्च-प्रमाणसम्बन्धात् सत्त्वम् , सतश्च 5 प्रमाणसम्बन्धः इति / किञ्च, तत्सम्बन्धः स्वयं सन् , असन् वा ? यदि असन् ; कथं तत्सम्बन्धात् कस्यचित् सत्वम् अतिप्रसङ्गात् ? अथ सैन् ; किं स्वतः, अपरप्रमाणसम्बन्धात् , अन्यतो वा कुतश्चित् ? यदि स्वतः; पदार्थैः किमपराद्धं येन एषां स्वतः सत्त्वं नेष्यते ? अपरप्रमाणसम्बन्धात्तु तत्सत्त्वे अनवस्था / अन्यतोऽपि-प्रमेयसम्बन्धात् , निमित्तान्तराद्वा तत्सत्त्वं स्यात् ? 10 यदि प्रमेयसम्बन्धात् ; इतरेतराश्रयः / अथ निमित्तान्तरात् ; तर्हि सर्वत्र तस्यैव अव्यभिचारिणः सत्त्वहेतुत्वमस्तु किं प्रमाणसम्बन्धकल्पनया ? तच्च उत्पादव्ययध्रौव्ययुक्तत्वात् नान्यद् भवितुमर्हति / - किश्च, सिद्धे अध्यक्षादिरूपे प्रमाणे तत्सम्बन्धेन अर्थानां सत्त्वसिद्धियुक्ता, तत्सिद्धिश्च इन्द्रियार्थसम्बन्धादिसामप्रीतो भविष्यति, एवञ्च चक्रकप्रसङ्गः ; तथाहि-सिद्धे प्रत्यक्षादि- 15 प्रमाणे तत्सम्बन्धेन इन्द्रियार्थानां सत्त्वसिद्धिः, तत्सिद्धौ च सत्यां तत्सम्बन्धादिप्रमाणसामग्रीसिद्धिः, तस्यां सत्यां प्रत्यक्षादिप्रमाणसिद्धिरिति / / .. किञ्च, प्रमाणसम्बन्धेन अर्थानां सत्त्वं क्रियते, ज्ञाप्यते वा ? न तावत् क्रियते; तत: प्रागपि अर्थांनां लब्धात्मलाभत्वात् , यतः प्रागपि यत् लब्धात्मलाभं न तस्य सत्त्वं तेन क्रियते या पुत्रात्प्रागपि लब्धात्मलाभस्य पितुः पुत्रेण, प्रमाणात् प्रागपि लब्धात्मलाभाश्च घटादयो 20 भावा इति / अथ ज्ञाप्यते ; न किञ्चिदनिष्टम् , प्रमाणसाध्यत्वात् प्रमेयव्यवस्थायाः, नहि प्रमाणमन्तरेण प्रमेयव्यवस्था युक्ता अतिप्रसङ्गात् / तदेवम् अन्यतो वस्तुनः सत्त्वाऽनुपपत्तेः उत्पादव्ययध्रौव्ययुक्तत्वेनैव अस्य सत्त्वं प्रतिपत्तव्यम् / न च उत्पादादयो वस्तुनो भिन्नाः 1 "किन्लबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते / " न्यायमं० पृ० 453 / २-न्धः लक्ष्यते च स्वयं भां०, श्र० / 3 सन् एव किं ब०, ज०।४ सत्त्वे हे-श्र० / ५-था सुतात् श्र०। 6 " द्रव्यं हि नित्यमाकृतिरनित्या सुवर्ण कयाचिदाकृत्या युक्तं पिण्डो भवति, पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते, रुचकातिकृमुपमृद्य कटकाः क्रियन्ते, कटकाकृतिमुपमृद्य स्वस्तिकाः क्रियन्ते, पुनरावृत्तः सुवर्णपिण्डः पुनरपरया आकृत्या युक्तः खदिराङ्गारसदृशे कुण्डले भवतः, आकृतिरन्या अन्या च भवति द्रव्यं पुनस्तदेव, आकृत्युपमर्दैन द्रव्यमेवावशिष्यते / " पात. महाभा० 11111 / योगभा० 4 / 13 / “घटमौलिसुवणार्थी नाशोत्पादस्थितिष्वयम् / शोकप्रमोदमाध्यस्थ्यंजनो याति सहेतुकम् // 59 // " आप्तमी / “वर्धमानकभङ्गे च रुचकः क्रियते यदा। तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः // 21 // हेमार्थिनस्तु