________________ 394 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्र [2 विषयपरिः __ यदपि-'विज्ञानप्रत्ययं नामरूपम्' इत्युक्तम्'; तदपि महाद्भुतम् ; रूपादिस्कन्धचतुष्टयलक्षणनामरूपस्य विज्ञानप्रभवत्वाऽसंभवात् , विज्ञानस्यैव तत्प्रभवत्वोपपत्तेः / तद्धि अनेन उपादानभावेन जन्यते, सहकारिभावेन वा ? न तावद् उपादानभावेन ; इन्द्रियतदर्थानाम- . त्यन्तविलक्षणतया तदुपादानत्वाऽसंभवात् / यद् यतोऽत्यन्तविलक्षणं न तस्य तद् उपादानम् यथा जलस्य अनलः, अत्यन्तविलक्षणञ्च विज्ञानाद् इन्द्रियादिकमिति / नापि सहकारिभावेन; इन्द्रियादिभ्यो विज्ञानस्यैव तथोत्पत्तिप्रतीतः , सर्वैरिष्टत्वाच्च / सर्वेषामपि च अङ्गानां सहकारिभावेन विज्ञानादुत्पत्तिसंभवान्न नामरूपमेव विज्ञानप्रत्ययं स्यात् / या च अविज्ञप्तिः कञ्चुकप्रख्या प्रतिपादिता; सा किं चिद्रूपा, अचिद्रूपा वा स्यात् ? न तावञ्चिद्रूपा; अनभ्युपगमात् / अथ अचिद्रूपा; न किञ्चिदनिष्टम् , कार्माणशरीरस्य तथा 10 नामान्तरकरणात्।.. यदपि 'नामरूपप्रत्ययं षडायतनम्' इत्यभिहितम्'; तदप्यपर्यालोचिताऽभिधानम् ; रूपस्कन्धे एव अस्य अन्तर्भूतत्वेन पृथगभिधाने प्रयोजनाऽभावात् , तत्राऽन्तर्भूतस्याप्यस्य पृथक् .. प्रतिपादने प्रतिपादयितुः अप्रेक्षापूर्वकारित्वप्रसङ्गः। प्रतिपाद्यानां संक्षेप-विस्तररुचित्वात् तथा तत्प्रतिपादने किं तत्परिगणनेन ; तद्रुचीनामानन्त्यसद्भावात् ? 'विषयेन्द्रियविज्ञान१५ समूहः स्पर्शः' इत्यादि तु ठकभाषामात्रेण स्वप्रक्रियाप्रदर्शनमात्र न कचिद् उपयुज्यते इत्युपेक्षते / यदपि पृथिव्यादिधातुचतुष्टयं प्रतिपादितम् ; तदप्यविवादास्पदमेव ; प्रतीतिसिद्धस्य पृथिव्यादेः अनेकप्रकाराऽर्थोत्पत्तिस्थानतया तद्वयपदेशे विवादाऽभावात् / या तु तदुत्पत्तौ प्रक्रिया-परमाणुः उत्पद्यमानोऽष्टद्रव्यक उत्पद्यते , अष्टौ द्रव्याणि-चत्त्वारि महाभूतानि , चत्वारि च उपादानरूपाणि रूप-रस-गन्ध-स्पृष्टव्यानि, यथा हि सांख्यस्य एक एव शब्दादिः सत्त्वरजस्तमोमयो जायते, एवम् अस्मन्मते अष्टद्रव्यकः परमाणुः इति; सा अतीवाऽसङ्गता; परमाणूनामेकैकशो रूपादिसंभवेऽपि पृथिव्यादिमहाभूताऽसंभवात् / तानि हि तत्र शक्तिरूपतया परिकल्प्यन्ते, स्कन्धरूपतया वा ? यदि शक्तिरूपतया; तदा अनन्तद्रव्यकोऽपि पर 20 1 पृ० 390 पं० 6 / 2 तद्धि उपा-ब०, ज.' / 3 इन्द्रियेभ्यो-आ०, भा० / 4 पृ० / 391 पं० 7 / 5 पृ० 390 पं० 7 / 6 पृ. 391 पं० 7 / 7 “कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः। कायेन्द्रियो नवद्रव्यः दशद्रव्योऽपरेन्द्रियः // 22 // कामधातौ शब्दायतनरहितः (अशब्दः ) इन्द्रियप्रवेशाऽनहश्च अष्टद्रव्यको भवति / अष्टौ द्रव्याणि चत्वारि महाभूतानि (पृथिव्यप्तेजीवायवः) चत्वारि भौतिकानि ( गन्धरसरूपस्पर्शाः ) अशब्दः कायेन्द्रिय-कायायतनप्रवेशाहः परमाणुः नवद्रव्यकः तत्र नवमं द्रव्यं स्प्रष्टव्यम् / अशब्दोऽकायेन्द्रियः चक्षुराद्यन्यतमेन्द्रियप्रवेशार्हः परमाणुः तदिन्द्रियेण सह दशद्रव्यकः / " अभिध० व्या० 2 / 22 / पूर्वपक्षरूपेण-सर्वार्थसि० पृ० 77 / 8. उपादायरू-आ० / उपादानानि ब०, ज० /