________________ 392 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे २विषयपरि० निरोधो द्विप्रकारः प्रतिसंख्यानिरोधः, अप्रतिसंख्यानिरोधश्चेति / तत्र दुःखादीनि आर्यसत्यानि प्रतिसंख्यायन्ते यथावन्निश्चीयन्ते येन प्रज्ञाविशेषेण तेन यः प्राप्यो निरोधः अविद्याधुच्छेदः सःप्रेतिसंख्यानिरोधः / रागादिसमुत्पादे अत्यन्तविघ्नभूतः समाधिसमापत्तिरूपः अप्रतिसंख्या. निरोधः / चक्षुरादीन्द्रियाणि षडायतनानि 'आयं तन्वन्ति' इति आयतनानि 'सर्वस्य आग५ च्छतः उपायाः' इत्यर्थः / 'चक्षुषा रूपं पश्यामि' इत्यादि विषयेन्द्रियविज्ञानसन्निपातः स मूहः स्पर्शः / स्पर्श सति अनुभवः वेदना / लोभः तृष्णा / तृष्णाया वैपुल्यम् उपादानम् / पुनर्भवजनककर्मलक्षणो भवः / अपूर्वस्कन्धप्रादुर्भावो जातिः / जातिस्कन्धपरिपाक-प्रध्वंसलक्षणं जरा-मरणम् इति / इत्थं भ्रमति भवचक्रम् / भवशब्देन चात्र काम-रूप-आरूप्यसंज्ञ काः त्रयो धातवोऽभिधीयन्ते / तत्र कामधातुः नरकादिस्थानः। रूपधातुः ध्यानरूपा / आ- . 10 रूप्यधातुः शुद्धचित्तसन्ततिरूप इति / अत्र प्रतिविधीयते / यत्तावदुक्तम् -'प्रतीत्यसमुत्पादम्' इत्यादि; तदसमोचीनम् ; यतः __ प्रतीत्यसमुत्पादे अविद्यादिद्वादशाङ्गानि मुमुक्षूणामुपयोगित्वात् वैभाषिकोक्तस्य अविद्यादिद्वादशां प्रदर्शितानि, किं वा एतावन्त्येव संभवन्तीति ? न तावद् ‘इयगस्य प्रतीत्यसमुत्पादस्य विस्तरतः न्त्येव' इत्यवधारयितुं शक्यम् ; जगत्पर्यायवैचित्र्यस्य आनखण्डनम् न्त्येन व्याप्तत्वात् / नापि मुमुक्षुणाम् एतावन्त्येव उपयुज्यन्ते ; 1 “प्रतिसंख्यानिरोधो यो विसंयोगः पृथक् पृथक् / उपादानात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसंख्यया // प्रतिसंख्या हि प्रज्ञा तया हेतुभूतयाऽयं निरोधो भवतीति प्रतिसंख्यानिरोधः / धर्माणामुत्पत्तेरत्यन्तं विरोधी योऽन्यः स्वरूपवियोगः स अप्रतिसंख्यानिरोधः / " अभिध० 16 / “विसंयोगः क्षयो धिया // " अभिध० 2 / 57 / " अशुभाद्यालम्बना रागादिप्रतिपक्षभूता प्रज्ञा प्रतिसङ्ख्यानम् / " तत्त्वसं० पं० पृ० 547 / 2 " आयतनम् आगमनद्वारवत्" अभिध० व्या० 120 / 3 “तजाः षड् वेदनाः पंच कायिकी चैतसी परा।" अभिध० 3 / 32 / 4 "त्रयो धातवः कामरूपारूघ्यावचरभेदेन / " मध्यान्तवि० टी० पृ. 25 / 5 "नरकप्रेततिर्यंचो मानुषाः षड् दिवौकसः। कामधातुः स नरकद्वीपभेदेन विंशतिः // 1 // नरका अष्टौ-संजीव-कालसूत्र-संघात-रौरव-महारौरव-तपन-प्रतपन-अवीचयः / द्वीपाः चत्वार:-जम्बूद्वीप-पूर्व विदेह-अवरगोदानीय-उत्तरकुरवः / षड् देवलोकाः-चातुर्माहाराजिक-त्रयस्त्रिंश-याम-तुषित-निर्माणरति-परनिर्मितवशवर्तिनः इति देवाः / इत्थं नरकद्वीपभेदसंग्रहेण 8+4= द्वादश+ षड् देवलोकाः=१८ प्रेत तिर्यंच-सवें विंशतिसंख्याकाः कामधातुशब्दवाच्याः / " अभिध० व्या० 3 / 1 / 6 " ऊर्ध्व सप्तदशस्थानो रूपधातुः पृथक् पृथक् / ध्यानं त्रिभूमिकं तत्र चतुर्थ त्वष्टभूमिकम् // 2 // तत्र पृथक् पृथक् एकैकस्मिन् ध्याने त्रयो लोकाः; तद्यथा-प्रथमध्याने ब्रह्मकायिक-ब्रह्मपुरोहित-महाब्रह्मलोकाः / द्वितीयध्याने परित्ताभ-अप्रमाणाभ-आभास्वरलोकाः / तृतीयध्याने परित्तशुभ-अप्रमाणशुभ-शुभकृत्स्नलोकाः। चतुर्थध्यानं तु अष्टभूमियुक्तम् ; तथाहि-अनभ्रक-पुण्यप्रसव-वृहत्फल-पंचशुद्धावासिकाः (अबृह-अतप-सुदृश-सुदर्शन-अकनिष्ठाः ) / चतुर्पु ध्यानेषु सप्तदश लोकाः सप्तदश स्थानानि / " अभिध० व्या० 3 / 2 / 7 " आरूप्यधातुरस्थानः उपपत्त्या चतुर्विधः। निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः // 3 // आरूप्यधातौ तृतीये अन्तिमे च स्थानभेदो नास्ति / सत्ताक्रमेण चत्त्वारो भेदा वक्तुं शक्याः / ते च आकाशानन्त्यायतन-विज्ञानानन्त्यायतन-आकिंचन्यायतन-नैवसंज्ञानासंज्ञायतनानि इति / अत्र च आरूप्यधातौ चित्तसन्तानो विज्ञानसन्तानः निकाये सभागतायां जीवितेन्द्रिये च निश्रितः आश्रितो भवति यतस्तत्र शरीरादेरभावः / " अभिध० व्या० 3 / 3 / 8 पृ. 390 पं० 1 /