________________ 353 लघी० प्रमाणप्र० का०७] सांख्यीयतत्त्वप्रक्रियावादः क्षया दोषः अयं तु कारणापेक्षया / यदि च असत् कार्यम् सर्व सर्वस्मात् जायेत असत्त्वाऽविशेषात् , ततश्च मृत्पिण्डादपि घट-पटोत्पत्तिः तन्तुभ्यश्च स्यात् इति, अयं कारणापेक्षयैव अतिप्रसङ्गो दोषः / शक्तस्य च शक्यकरणं न्याय्यम् , न च असतः कार्यस्य आकाशकुशेशयवत् शक्यक्रियत्वम् , नापि तंत्र कारणस्य सामर्थ्यम् , अयञ्च कार्यकारणयोर्धर्मापेक्षया दोषः / कारणभावाच्च सत्कार्यम् ; कारणभावो हि कारणत्वम् , तच्च नित्यसम्बन्धित्वात् कार्यसम्बन्धमपे- 5 क्षते, न च असता गगनाम्भोजप्रख्येण कारणस्य कश्चित् सम्बन्धः, अतः कारणे कार्य तादात्म्येन वर्तते / कथमेवं तयोर्भेदः ? इति चेत् ; "हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् / सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् // " [सांख्यका० 10 ] इति लक्षणभेदात् / व्यक्तमेव हेतुमत्-हेतुः कारणम् अस्याऽस्तीति, प्रधानेन हि हेतुमती बुद्धिः, 10 बुद्धया अहङ्कारः, अहङ्कारेण षोडशको गणः, पञ्चतन्मात्रैः पञ्चमहाभूतानि, न तु प्रधानं तत्कारणाऽसत्त्वात् / चिद्रूपश्च पुरुषो न जडस्य कारणम् अत्यन्तविलक्षणत्वात्, जडानां सा सूक्ष्मतरावस्था, न अतो अवस्थान्तरं सूक्ष्मतममस्ति तेन जडस्य अजडस्य वा प्रधानं प्रति कारणत्वाऽभावात् सिद्धमस्याहेतुमत्त्वम् / अत एव तत् नित्यम् , तद्विपर्ययात् महदाद्यनित्यम् / कारणाच कार्येण अल्पपरिमाणेन भवितव्यम् इति कारणापेक्षया महदादेः अव्यापकत्वम्, विप- 15 र्ययात् प्रधानस्य व्यापकत्वम् / क्रिया च परिस्पन्दात्मिका मूर्तस्यैव महदादेर्भवति इति सक्रियं तत् , एतद्विपर्ययात् निष्क्रियं प्रधानम् , परिणामात्मिका तु क्रिया द्वयोरप्यस्ति / बहूनाम् ईश्वराणां परस्परमतभेदेन कार्यारम्भे यथा काचपच्यात् कार्याऽनिष्पत्तिः तथा बहूनां प्रधानानामपि इति एकं तत् , व्यक्तं तु महदादिभेदाद् अनेकम् / आश्रितञ्च व्यक्तम् , यद् यस्मादुत्पद्यते तस्य तदाश्रितत्वात् , न तु एवमव्यक्तम् तस्य अकार्यत्वात् / लिङ्गश्च; 'लीनं सूक्ष्मं स्वकारणं 20 गमयति, लयं गच्छति' इति वा / घनीभूताऽवयवयोगात् सत्त्वादि-अङ्गाऽङ्गिभूताऽवयवयोगाच्च सावयवं व्यक्तम् , तद्विपर्ययात् निरवयवमव्यक्तम् / हेतुमत्त्व-आश्रितत्वाभ्यां परतन्त्रं व्यक्तम् , . न त्वेवमव्यक्तम् / न चैवमनयोः आत्यन्तिको भेद एव; - "त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि / व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् // " [सांख्यका० 11] इति 25 लक्षणाऽभेदात् तदभेदस्यापि उपपत्तेः / सत्त्वरजस्तमोमयत्वाद् द्वयोरपि त्रिगुणत्वं तुल्यम् / 'इमे सत्त्वादयो गुणाः, इदं व्यक्ताऽव्यक्तम् ' इति प्रथक्कर्तुमशक्यत्वात् अविवेकि। तथा द्वयमपि विषयः भोग्यस्वभावत्वात् , 'विषिणोति भोग्यतया बध्नाति इन्द्रियाणि' इति विषयः / 1 तत्का-आ०, ब० / 2 प्रवर्तते आ० / 3 धर्मः ब०, ज०, / एकादशेन्द्रियाणि पंचतन्मात्राश्च / 4 निष्क्रियत्वं आ० / 45