________________ 25. 12 ] हरिवंशे [ 26.. 21 अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः / यवनस्य महाराज स कालयवनोऽभवत् // 12 स युद्धकामो नृपतिः पर्यपृच्छहिजोत्तमान् / वृष्ण्यन्धककुलं तस्य नारदोऽकथयद्विभुः // 13 अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा / दूतं च प्रेषयामास वृष्ण्यन्धकनिवेशने // 14 ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् / समेता मत्रयामासुर्जरासंधभयेन च // 15 कृत्वा च निश्चयं सर्वे पलायनमरोचयन् / विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् / कुशस्थली द्वारवतीं निवेशयितुमीप्सवः // 16 इति कृष्णस्य जन्मेदं यः शुचिनियतेन्द्रियः / . पर्वसु श्रावयेद्विद्वान्निर्ऋणः स सुखी भवेत् // 17 इति श्रीहरिवंशे पञ्चविंशतितमोऽध्यायः // 25 // 26 मरुत्तस्तस्य तनयो राजर्षिरभवन्नृपः // .. मरुत्तोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् / चचार परमं धर्मममर्षाप्रेत्यभाववित् // 8 शतप्रसूतिमिच्छन्वै सुतं कम्बलबर्हिषः / बभूव रुक्मकवचः शतप्रसवतः सुतः // 9 निहत्य रुक्मकवचः शतं कवचिनां रणे। धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् / / 10 जज्ञे च रुक्मकवचात्पराजित्परवीरहा / जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजितः / रुक्मेषुः पृथुरुक्मश्च ज्यामधः पालितो हरिः // 1: पालितं च हरिं चैव विदेहेभ्यः पिता ददौ / रुक्मेषुरभवद्राजा पृथुरुक्मश्च संश्रितः / ताभ्यां प्रव्राजितो राज्याजयामघोऽवसदाश्रमे // 1: प्रशान्तः स वनस्थस्तु ब्राह्मणेनावबोधितः / जगाम रथमास्थाय देशमन्यं ध्वजी रथी // 13 नर्मदाकूलमेकाकी नर्मदां मृत्तिकावतीम् / . ऋक्षवन्तं गिरि जित्वा शुक्तिमत्यामुवास सः // 11 ज्यामघस्याभवद्भार्या चैत्रा परिणता सती / अपुत्रोऽपि च राजा स नान्यां भार्यामविन्दत // तस्यासीद्विजयो युद्धे तत्र कन्यामवाप सः। भार्यामुवाच संत्रासात्स्नुषेति स नरेश्वरः // 16 एतच्छ्रुत्यानवीदेनं कस्य चेयं स्नुषेति वै / यस्ते जनिष्यते पुत्रस्तस्य भार्येति जातमीः // 1 // उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत / पुत्र्यां विदर्भ सुभगा चैत्रा परिणता सती // 18 राजपुत्र्यां तु विद्वांसौ स्नुषायां ऋथकैशिकौ / पश्चाद्विदर्भोऽजनयच्छूरौ रणविशारदौ // 19 भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत् / कुन्तेधृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् // 20 धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः। वैशंपायन उवाच / क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महायशाः / वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम् // 1 स्वाहिपुत्रोऽभवद्राजा रुषद्गुर्वदतां वरः / महाक्रतुभिरीजे यो विविधैराप्तदक्षिणैः // 2 शतप्रसूतिमिच्छन्वै रुषद्गुः सोऽयमात्मजम् / चित्रैश्चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः // 3 आसीञ्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः / शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः // 4 पृथुश्रवाः पृथुयशा राजासीच्छशबिन्दुजः / शंसन्ति च पुराणज्ञाः पार्थश्रवसमन्तरम् // 5 अन्तरस्य सुयज्ञस्तु सुयज्ञतनयोऽभवत् / उशतो यज्ञमखिलं स्वधर्ममुशतां वरः // 6 शिनेयुरभवत्पुत्र उशतः शत्रुतापनः / -52