________________ 118. 49 ] हरिवंशे ... [118. 51 स वीतरागो विचरेद्वसुंधराम् // 49 इत्येतदाख्यानमुदाहृतं वः __ प्रतिस्मरन्तो द्विजमण्डलेषु / स्थैर्येण जातेन पुनः स्मरन्तः सुखं भवन्तो विचरन्तु लोकम् // 50 इति चरितमिदं महात्मना__मृषिकृतमद्भुतवीर्यकर्मणाम् / कथितमिदं हि समासविस्तरैः किमपरमिच्छसि किं ब्रवीमि ते // 51 इति श्रीहरिवंशे अष्टादशोत्तरशततमोऽध्यायः // 118 / // समाप्तं भविष्यपर्व // // समाप्तो हरिवंशः॥ -224 -