________________ 45. 24 j हरिवंशपर्व [ 45. 49 परन्ति सागरान्सर्वानरक्षिताः स्वेन तेजसा // 24 कस्ता धर्षयितुं शक्तो मम गाः कश्यपाहते / अक्षयं याः क्षरन्त्यग्रं पयो देवामृतोपमम् // 25 / प्रभुर्वा व्युत्थितो ब्रह्मन्गुरुर्वा यदि वेतरः / त्वया नियम्याः सर्वे व त्वं हि नः परमा गतिः // यदि प्रभवतां दण्डो लोके कार्यमजानताम् / न विद्यते लोकगुरो न स्युबै लोकसेतवः // 27 / यथा वास्तु तथा वास्तु कर्तव्ये भगवान्प्रभुः / / मम गावः प्रदीयन्तां ततो गन्तास्मि सागरम् // 28 यस्तेऽऽत्मा देवता गावी या गावः स त्वमव्ययम् / लोकानां त्वत्प्रवृत्तानामेकं गोंब्राह्मणं स्मृतम् / / 29 त्रातव्याः प्रथमं गावस्त्रातास्त्रायन्ति ता द्विजान् / गोब्राह्मणपरित्राणत्परित्रातं जगद्भवेत् // 30 इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत / गवां कारणतत्त्वज्ञः कश्यपे शापमुत्सृजम् / / 31 येनांशेन हृता गावः कश्यपेन महात्मना / स तेनांशेन जगतीं गत्वा गोपत्वमेष्यति // 32 या च सा सुरभि म यादितिश्च सुरारणिः / तेऽप्युभे तस्य वै भार्ये सह तेनैव यास्यतः // 33 तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः। वसुदेव इति ख्यातो गोषु तिष्ठति भूतले // 34 गिरिर्गोवर्धनो नाम मथुरायास्त्वदूरतः / तत्रासौ गोषु निरतः कंसस्य करदायकः // 35 तस्य भार्याद्वयं चैव अदितिः सुरभिस्तथा / देवकी रोहिणी चैव वसुदेवस्य धीमतः / / 36 तत्रावतर लोकानां भवाय मधुसूदन। जयाशीर्वचनस्त्वेते वर्धयन्ति दिवौकसः // 37 आत्मानमात्मना हि त्वमवतार्य महीतलम् / देवकी रोहिणीं चैव गर्भाभ्यां परितोषय // 38 तत्र त्वं शिशुरेवादौ गोपालकृतलक्षणः / वर्धयस्व महाबाहो पुरा त्रैविक्रमे यथा // 39 छादयित्वात्मनात्मानं मायया योगरूपया। गोपकन्यासहस्राणि रमयंश्चर मेदिनीम् / / 40 गाश्च ते रक्षतो विष्णो वनानि परिधावतः / वनमालापरिक्षिप्तं धन्या द्रक्ष्यन्ति ते वपुः // 41 विष्णो पद्मपलाशाक्ष गोपालवसतिं गते / बाले त्वयि महाबाहो लोको बालत्वमेष्यति // 42 त्वद्भक्ताः पुण्डरीकाक्ष तव चित्तवशानुगाः / वने चारयतो गास्तु गोष्ठांश्च परिधावतः / मज्जतो यमुनायां च रतिमाप्स्यन्ति ते त्वयि // 43 जीवितं वसुदेवस्य भविष्यति सुजीवितम् / यस्त्वया तात इत्युक्तः पुत्र इत्येव वक्ष्यति // 44 अथ वा कस्य पुत्रत्वं गच्छेरन्यत्र कश्यपात् / का च धारयितुं शक्ता विष्णो त्वामदितिं विना॥४५ योगेनात्मसमुत्थेन त्वं गच्छ विजयाय वै / वयमप्यालयं स्वं स्वं गच्छामो मधुसूदन // 46 स देवानभ्यनुज्ञाय विविक्ते त्रिदिवालये / जगाम विष्णुः स्वं देशं क्षीरोदस्योत्तरां दिशम् // तत्रैव पार्वती नाम गुहा मेरोः सुदुर्गमा / त्रिभिस्तस्यैव विक्रान्तैर्नित्यं पर्वसु पूजिता // 48 पुराणं तत्र विन्यस्य देहं हरिरुदारधीः / आत्मानं योजयामास वसुदेवगृहे प्रभुः // 49 इति श्रीहरिवंशे पञ्चचत्वारिंशत्तमोऽध्यायः॥४५॥ // हरिवंशपर्व समाप्तम् // --91 -